2023-10-23 11:58:12 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
२२५
 
( त० मा० पृ० २ ) ( त० सं० ) । यथा वा नवीनानां मणिकारादीनां

मते प्रतिबन्धकसंसर्गाभावोपि कार्यमात्रं प्रति कारणम् । स च प्रति-

बन्धकात्यन्ताभावः । अनन्यथासिद्धेत्यस्यार्थश्च अन्यथासिद्धभिन्नं अन्यथा-

सिद्धिशून्यम् यत् कार्यनियतप्पूर्ववृत्ति तदिति । अत्र व्यापारेण व्यापारिणो

नान्यथासिद्धिः इति नियमोङ्गीकर्तव्यः । तेन कुठारेण वृक्षं छिनत्तीत्यादौ

कुठारादीनां परंपरया छेदनक्रियाजनककुठारदारुसंयोगजनकविधया

कारणत्वेपि नान्यथासिद्धिः इति । कार्यनियतेत्यस्यार्थश्च कार्यान्नियता

अवश्यंभाविनी पूर्ववृत्तिः पूर्वक्षणवृत्तिः यस्य तत्तथा इति ( सि० च० १

पृ० ५० ) । अत्र घटं प्रति रासभादेः कारणत्वनिरासाय नियतपदम् ।

यद्यपि अनियतरासभादेस्तृतीयान्यथासिद्धत्वेन (तर्कदीपिकायुक्ततृतीया-

न्यथासिद्धलक्षणाक्रान्तत्वेन) कारणलक्षणघटके

विशेषणेन रासभादेः कारणत्वनिरासान्नियतपदं व्यर्थमेव तथापि घट-

सामान्य प्रति रासभसामान्यस्य कारणत्वनिरासाय नियतपदमाव-

श्यकम् । यदि नियतपदं लक्षणे न निवेश्यते तदा तत्र पूर्वोक्त-

तृतीयान्यास संभवेनातिव्याप्तिः स्यात् इति । नियतपूर्ववृत्तित्वं चाव्य-

वहितपूर्वकालावच्छेदेन कार्यदेशे सत्त्वम् । न चेदं रासभसामान्येस्ति

अतो नातिव्याप्तिः (त० कौ० १ पृ० ८) ( नील० १ पृ० १६) ।

अत्र प्राभाकरास्तु कारणमात्रं कार्यसहभावनिरूपकमेव सत् कार्यकार

इति प्रतिबन्धकाभावोपि कार्यसहभावेन कारणम् इति च वदन्ति ।

तन्निरूपकत्वम् । खोत्पत्ति स्वाव्यवहितपूर्वत्व एतदन्यतरसंबन्धेन यदा

कार्यसहभावनिरूपकत्वं चात्र कार्योत्पत्तिक्षणावच्छिन्ना याधिकरणता

कार्य तदा प्रतिबन्धकाभावादिः इति प्रत्यासत्या कारणम् इति (मू०

म० १) । यथा दाहोत्पत्तिकाले मण्याद्यभावः । घ] कार्योत्पादकम् ।

अत्रेयं व्याप्तिरनुसंधेया यद्विशेषयोः कार्यकारणभावः असति बाधके

तत्सामान्ययोरपि इति । यथा घटविशेषदण्डविशेषयोः कार्यकारण-

भावे घटसामान्यदण्डसामान्ययोरपि कार्यकारणभावो निराबाध एव

। अत्र घटविशेष प्रति दैवादागतरासभस्य कारणत्वे घटसामान्य-

२९ न्या० को०
 
इति