This page has not been fully proofread.

न्यायकोशः ।
 
२२५
 
( त० मा० पृ० २ ) ( त० सं० ) । यथा वा नवीनानां मणिकारादीनां
मते प्रतिबन्धकसंसर्गाभावोपि कार्यमात्रं प्रति कारणम् । स च प्रति-
बन्धकात्यन्ताभावः । अनन्यथासिद्धेत्यस्यार्थश्च अन्यथासिद्धभिन्नं अन्यथा-
सिद्धिशून्यम् यत् कार्यनियतप्पूर्ववृत्ति तदिति । अत्र व्यापारेण व्यापारिणो
नान्यथासिद्धिः इति नियमोङ्गीकर्तव्यः । तेन कुठारेण वृक्षं छिनत्तीत्यादौ
कुठारादीनां परंपरया छेदनक्रियाजनककुठारदारुसंयोगजनकविधया
कारणत्वेपि नान्यथासिद्धिः इति । कार्यनियतेत्यस्यार्थश्च कार्यान्नियता
अवश्यंभाविनी पूर्ववृत्तिः पूर्वक्षणवृत्तिः यस्य तत्तथा इति ( सि० च० १
पृ० ५० ) । अत्र घटं प्रति रासभादेः कारणत्वनिरासाय नियतपदम् ।
यद्यपि अनियतरासभादेस्तृतीयान्यथासिद्धत्वेन (तर्कदीपिकायुक्ततृतीया-
• न्यथासिद्धलक्षणाक्रान्तत्वेन) कारणलक्षणघटके
● विशेषणेन रासभादेः कारणत्वनिरासान्नियतपदं व्यर्थमेव तथापि घट-
• सामान्य प्रति रासभसामान्यस्य कारणत्वनिरासाय नियतपदमाव-
श्यकम् । यदि नियतपदं लक्षणे न निवेश्यते तदा तत्र पूर्वोक्त-
तृतीयान्यास संभवेनातिव्याप्तिः स्यात् इति । नियतपूर्ववृत्तित्वं चाव्य-
वहितपूर्वकालावच्छेदेन कार्यदेशे सत्त्वम् । न चेदं रासभसामान्येस्ति
अतो नातिव्याप्तिः (त० कौ० १ पृ० ८) ( नील० १ पृ० १६) ।
अत्र प्राभाकरास्तु कारणमात्रं कार्यसहभावनिरूपकमेव सत् कार्यकार
इति प्रतिबन्धकाभावोपि कार्यसहभावेन कारणम् इति च वदन्ति ।
• तन्निरूपकत्वम् । खोत्पत्ति स्वाव्यवहितपूर्वत्व एतदन्यतरसंबन्धेन यदा
कार्यसहभावनिरूपकत्वं चात्र कार्योत्पत्तिक्षणावच्छिन्ना याधिकरणता
कार्य तदा प्रतिबन्धकाभावादिः इति प्रत्यासत्या कारणम् इति (मू०
म० १) । यथा दाहोत्पत्तिकाले मण्याद्यभावः । घ] कार्योत्पादकम् ।
अत्रेयं व्याप्तिरनुसंधेया यद्विशेषयोः कार्यकारणभावः असति बाधके
• तत्सामान्ययोरपि इति । यथा घटविशेषदण्डविशेषयोः कार्यकारण-
भावे घटसामान्यदण्डसामान्ययोरपि कार्यकारणभावो निराबाध एव
। अत्र घटविशेष प्रति दैवादागतरासभस्य कारणत्वे घटसामान्य-
२९ न्या० को०
 
इति