2023-10-23 11:56:24 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

२२४
 
न्यायकोशः ।
 
विचक्षणीयम् । तेन अवयवावयविनोरेकत्वयोः संख्यात्वेनापि साजात्यम-

भ्युपगम्य तादृशैकत्वाभ्यां जनितेवयवावयविद्वित्वादौ नातिव्याप्तिः

( दि० गु० प० १९४ ) । कारणगुणोत्पन्नगुणाश्च अपाकजा रूप.

रसगन्धानुष्णस्पर्शाः अपाकजं द्रवत्वम् स्नेहवेगगुरुत्वएकत्वानि एक

पृथक्त्वम् परिमाणम् स्थितिस्थापकश्चेति ( भा० प० गु०
 
झो
 
श्लो०
९६ - ९७ ) । अत्र पृथिवीमात्रवृत्तीनां केषांचित् पाकजरूपरसगन्ध

स्पर्शानाम् कारणगुणपूर्वकत्वाभावात् अपाकजा इत्युक्तम् (मु० गु०

पृ० १९४ ) । वेगोत्र कर्माजन्यो वेगजन्यः ग्राह्यः ( प० मा० ) ।
 

करणगुणोत्पन्नत्वं च [क] स्वाश्रयसमवायिसमवेतगुणजन्यत्वम् ( दि०
 

गु० पृ० १९४ ) । अत्र स्वम् अवयविजलस्य रूपादि । तस्याश्रयः

समवाय वा समवायेन संबन्धेनाश्रयः अवयविभूतं जलम् । तस्य समवापि,

तेन जन्य: तस्य भाव इति विग्रहादिकं ज्ञेयम् । [ख ] स्वसमवायिसम

अवयवभूतं जलम् । तत्र समवेतो गुणः अवयवभूतजलवृत्ती रूपादिः ।

वायिसमवेतगुणजन्यत्वम् ( ल० व० पृ० ३६ ) । यथा कार्यजलस-

मवेतरूपस्य कारणगुणोत्पन्नत्वमेव । अत्र तादृशगुणजन्यत्वं च तादृशगुण

निष्ठासमवायिकारणतानिरूपितकार्यताशालित्वम् ( ल० व० पृ०
कारणम्-

 
<कारणम्>
१ [क] कारणं हि तद्भवति यस्मिन् सति यद्भवति यि

श्वासति यन्न भवति ( न्या० वा० १ पृ० २४ ) । अत्रेदं बोध्यम्/

कारणत्वं द्विविधम् । वैदिकम् लौकिकं च । तत्र वैदिकम् अन्वयमात्रा ।
 

वगम्यम् । लौकिकं तु अन्वयव्यतिरेकोभयगम्यम् इति ( त० व

परि० २ लो० ५० ५० ४० ) । पुनरपि न्यायमते काराव

द्विविधम् । फलोपहितत्वम् स्वरूपयोग्यत्वं चेति । तत्राद्यं यथा अनुमि

प्रति परामर्शस्य कारणत्वम् । फलोपहितत्वं च उपधायकत्वशब्देना

व्यवह्रियते। द्वितीयं यथा अरण्यस्थदण्डादिसाधारणम् जनकतावच्छेदक
 

लक्षणं दण्डत्वादिस्वरूपं घटकारणत्वम् । [ख]
 
कार्यतत्पूर्वभावी
 
अनन्य
कारणम
 

नियतोनन्यथा सिद्धश्च तत् ( त० मा० पृ० २ ) । [ग]
अनन्य
थासिद्धकार्यनियतपूर्ववृत्ति । यथा तन्तुवेमादिकं
 
यस्य
 
पटस्य
 
३६)/
 
कारणम