2023-10-23 08:11:53 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
२२१
 
अत एव च चर्मणि द्वीपिनं हन्तीत्यादौ निमित्तादेरपि न कारकत्वम् इति ।

एता उपपदविभक्तयः न तु कारकविभक्तयः इति ( का० व्या० पृ० १ )

(श० प्र० पृ० ७७-७८)। शाब्दिकास्तु [ छ ] क्रियाजनकत्वयोग्यता-

बुद्धिविषयत्वम् कारकत्वमित्याहुः ( ल० म० सुब० पृ० ७९ ) ।

[ज ] क्रियाहेतुः ( म० प्र० पृ० ६) । यथा चैत्रो ग्रामं गच्छ-

तीत्यादौ चैत्रः कारकम् । अत्र क्रियां कुर्वद्धि कारकम् इति योगो

द्रष्टव्यः ( म० प्र० पृ० ५ ) । [ झ ] कारकत्वं क्रियाजनकत्वम् ।

भाष्ये करोतिक्रियां निर्वर्तयतीति व्युत्पत्तिप्रदर्शनात् । ब्राह्मणस्य पुत्रं

पन्थानं पृच्छतीत्यादौ ब्राह्मणस्य न कारकत्वम् । पुत्रेणान्यथासिद्ध्या

तत्त्वाभावात् । अत एवैषां क्रियायामेवान्वयः । क्रियाजनकमिति ज्ञाते

का सा क्रियेत्याकाङ्क्षोदयेन क्रियाया जनकाकाङ्क्षया च तत्रैवान्वयस्यौ-

चित्यात् । सर्वेषां च कारकाणां स्वखावान्तरक्रियाद्वारा प्रधानक्रिया-

निष्पादकत्वं बोध्यम् । असंनिहितसंप्रदानस्यापि दातृबुद्धिस्थत्वावश्यक-

वेन स्वज्ञानस्य पूर्वकालत्वेनैव जनकत्वम् । एवं स्तोकं पचतीत्यादौ

फलस्यापि । घटं करोति स्मरतीत्यादौ बौद्धघटादे: पूर्वकालत्वेन स्मृत्यादि-

निष्पादकत्वं बोध्यम् ( श० शेख० का० पृ० १७४) । अत्र वज्ञान-

स्त्यत्र स्वपदेनासंनिहितं संप्रदानं बोध्यम् । स्तोकं पचतीत्यत्र च

फलस्य कथं कर्मत्वं तदुच्यते । पच्धात्वर्थो विकित्यनुकूलो व्यापारः ।

तत्र विक्कित्तिरूपफलस्य व्यपदेशिवद्भावेन फलाश्रयत्वात्कर्मत्वम् । तद्वा-

चकौ च द्वौ पच्चातुः स्तोकपदं चेति । तत्र धातोः प्रातिपदिकसंज्ञाया

अभावात्तस्माद्वितीया न भवति । स्तोकशब्दस्य च तत्सत्वाद्वितीया

भवति । कारकं षड़िधम् । अपादानत्वम् संप्रदानत्वम् करणत्वम्

अधिकरणत्वम् कर्मत्वम् कर्तुत्वम् इति ( श० प्र० पृ० ७८ ) । तदुक्तम्

कर्ता कर्म च करणं संप्रदानं तथैव च । अपादानाधिकरणमित्याहुः कार-

काणि षट् ॥ इति । कारकं प्रकासन्तरेणापि द्विविधम् । उक्तम् अनुक्त

। तत्र धात्वर्थस्य विशेष्यतया तिङाद्यनुभाव्यत्वमेव कारकस्योक्तत्वम् ।

तद्विशेषणतया तदनुभाव्यत्वमेव चानुक्तत्वम् । तत्र उक्तं कारकं यथा पचति
 
चेति
 
..