न्यायकोशः /250
This page has been fully proofread once and needs a second look.
न्यायकोशः ।
सन्मार्गवर्तिनी बुद्धिः ( न्यायक० पृ० १० ) । दानशीलत्वम्
इति काव्यज्ञा आहुः ।
<औपनिधिकम्
वासनस्थमनाख्याय हस्ते न्यस्य यदर्प्यते । द्रव्यं तदीप -
निधिकं प्रतिदेयं तथैव तत् ॥ ( याज्ञ० २१६५ ) ।
पतिते
<औपशमिकः
अनुदयप्राप्तिरूपे कर्मण उपशमे सति जीवस्योत्पद्यमानो
•
भावः। यथा पङ्के कलुषतां कुर्वति कतकादिद्रव्यसंबन्धादधः
जलस्य स्वच्छता (सर्व० सं० पृ० ६८ आई० )।
<औपादानिकः
अनुपपत्तिज्ञानसहकृतशब्दजनितो बोधः। अत्र व्युत्पत्तिः।
उपादानम् अनुपपत्तिज्ञानम् । तत्सहकृतशब्देन जनितो बोधः औपादान
•
निकः इति ( तर्कप्र० ख० ४ पृ० ११२ ) । यथा प्राभाकराणां मते
स्वर्गकामो यजेत इत्यादिवाक्यात् स्वर्गसाधनं स्वर्गकामनियोज्यको यागः
स्वर्गकामकृतिसाध्यः इत्यौपादानिको बोध उत्पद्यते इत्यादौ ग्रन्थे औ
•
दानिकशब्दस्यार्थः । केचित्तु अनुमित्यात्मको बोध औपादानिक इत्याहुः
( तर्कप्र० ख० ४ पृ० ११३ ) ।
<औपाधिकः>
उपाधिकृत औपाधिकः । यथा न स्वभावतो बद्धस्य मोक्ष
औपाधिकः - उपाधिकृत औपाधिकः । यथा न स्वभावतो बद्धस्य म
•
साधनोपदेशविधिः ( सां० सू० ) इत्यादौ जीवस्य बन्ध औपाधिकः "
नैमित्तिकः नापि तात्त्विक इत्यत्र (वाच ० ) । यदुपाध्यवच्छिन्नशक्तिमन्नाम
•
तदौपाधिकम् । यथा आकाशपश्चादि ( श० प्र० पृ० २५-२६ ) /
<औपाधिकी
(संज्ञा ) या अनुगतोपाध्यवच्छिन्नसंकेतवती संज्ञा सा / य
•
भूतदूतादिः । अत्र सा हि संज्ञा सचेतनावृत्तिविशेषगुणवत्त्वम् वार्ताहार-
कत्वम् इत्याद्यनुगतोपाधिपुरस्कारेणैव प्रवर्तते ( श० प्र० पृ० २५ ) /
<औलूक्यः
वैशेषिकसूत्रकारः कणादः । अत्र व्युत्पत्तिः उलूकस्य
मकस्य ऋषेरपल्य मौलूक्यः इति ( वाच० ) । विस्तरस्तु कणादशब्द
द्रष्टव्यः ।
<औष्ण्यम्
उष्णस्पर्श: ( राम० १ पृ० ७० ) ।