2023-10-22 11:52:44 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१९५
 
<ऐकान्तिकः>
१ एकमात्रव्याप्तिग्राहकसहचारो यंत्र सः ( गौ० दृ०

१ । २ । ५ ) । यथा अनैकान्तिक इत्यादावैकान्तिकः । यथा वा वह्निमान्

धूमादित्यादौ घूम ऐकान्तिकः । अत्र व्युत्पत्तिः एकस्य साध्यस्य तद -

भावस्य वा योन्तः सहचारः अव्यभिचरितसहचारः तस्यायमित्यै-

कान्तिकः इति । २ अवश्यंभावीति सांख्यवेदान्तिनः ( वाच० ) ।

 
<
ऐतिह्यम्>
[क] इति होचुः इत्यनिर्दिष्टप्रवक्तकं प्रवादपारम्पर्यम् ( वात्स्या

२१२११) । [ख] अनिर्दिष्टप्रवक्तृकं
 
परंपरागतं
वाक्यम् । यथा
वटे वटे यक्षः इत्यादी।
इति होचुरित्यनेन
 
वाक्यम् । यथा
प्रकारेण उच्यते
 

(गौ० वृ० २१२११) । [ग] अज्ञातमूलवक्तकः शब्दः । विशिष्या-

निश्चितप्रथमवक्तकः शब्द इत्यर्थः ( नील० पृ० ३४ ) । यथा इह

वटे यक्षस्तिष्ठति इति ( त० दी० पृ० ३४ ) । ऐतिहां प्रमाणान्तर मिति

अष्टप्रमाणवादिनः पौराणिकाः ( म० प्र० पृ० ६५ ) ( नील० पृ०

३४ ) । तत् प्रमाणान्तरं नेति नैयायिकसांख्यादयः प्रातुः । अत्रेदं
 

बोध्यम् । तदेतदैतिह्यमाप्तोक्तं चेच्छब्दान्तर्भावादनुमानमेव । न चेत्

प्रमाणमेव न भवतीति ( त० व० पृ० १०० ) ( न्या० म० २
 

पृ० ३२) (नील० पृ० ३४ ) ।
 
hin

 
<
ऐन्द्राग्नम्>
(नक्षत्रम् ) विशाखा ( पुरु० चि० पृ० ३५३) । विशाखा-

नक्षत्रस्येन्द्राग्निदेवताकत्वादैन्द्राग्नमिति संज्ञा ।

 
<
ऐशानी>
( दिक् ) सुमेरुसंनिहिता उदयगिरिसंनिहिता च दिक् ( वै०

वि० २।२।१० ) । यथा झळकीग्रामत ऐशान्यामकलकोटग्रामः ।
 

 
<
.
 
>
 
<
ओषधिः->
फलपाकावसानाः शालिप्रभृतयः ( मिता० २१ २२९) ।
 

 
<

 
>
 
<
औग्यम्>
आत्मन्युत्कर्षप्रत्ययः (न्या० वा० पृ० १ ) ।

 
<
औदयिकः >
कर्मोदये सति भवन्भाव औदयिकः ( सर्व० सं० पृ० ६८
 

ई० ) ।
 
.
 
र्ह० ) ।