This page has not been fully proofread.

न्यायकोशः ।
 
१९५
 
ऐकान्तिकः–१ एकमात्रव्याप्तिग्राहकसहचारो यंत्र सः ( गौ० दृ०
१ । २ । ५ ) । यथा अनैकान्तिक इत्यादावैकान्तिकः । यथा वा वह्निमान्
धूमादित्यादौ घूम ऐकान्तिकः । अत्र व्युत्पत्तिः एकस्य साध्यस्य तद -
भावस्य वा योन्तः सहचारः अव्यभिचरितसहचारः तस्यायमित्यै-
कान्तिकः इति । २ अवश्यंभावीति सांख्यवेदान्तिनः ( वाच० ) ।
ऐतिह्यम्–[क] इति होचुः इत्यनिर्दिष्टप्रवक्तकं प्रवादपारम्पर्यम् ( वात्स्या
२१२११) । [ख] अनिर्दिष्टप्रवक्तृकं
 
परंपरागतं
इति होचुरित्यनेन
 
वाक्यम् । यथा
प्रकारेण उच्यते
 
(गौ० वृ० २१२११) । [ग] अज्ञातमूलवक्तकः शब्दः । विशिष्या-
• निश्चितप्रथमवक्तकः शब्द इत्यर्थः ( नील० पृ० ३४ ) । यथा इह
वटे यक्षस्तिष्ठति इति ( त० दी० पृ० ३४ ) । ऐतिहां प्रमाणान्तर मिति
• अष्टप्रमाणवादिनः पौराणिकाः ( म० प्र० पृ० ६५ ) ( नील० पृ०
३४ ) । तत् प्रमाणान्तरं नेति नैयायिकसांख्यादयः प्रातुः । अत्रेदं
 
• बोध्यम् । तदेतदैतिह्यमाप्तोक्तं चेच्छब्दान्तर्भावादनुमानमेव । न चेत्
प्रमाणमेव न भवतीति ( त० व० पृ० १०० ) ( न्या० म० २
 
पृ० ३२) (नील० पृ० ३४ ) ।
 
hin
ऐन्द्राग्नम् – (नक्षत्रम् ) विशाखा ( पुरु० चि० पृ० ३५३) । विशाखा-
नक्षत्रस्येन्द्राग्निदेवताकत्वादैन्द्राग्नमिति संज्ञा ।
ऐशानी – ( दिक् ) सुमेरुसंनिहिता उदयगिरिसंनिहिता च दिक् ( वै०
वि० २।२।१० ) । यथा झळकीग्रामत ऐशान्यामकलकोटग्रामः ।
 
ओ.
 
ओषधिः-फलपाकावसानाः शालिप्रभृतयः ( मिता० २१ २२९) ।
 
और
 
औग्यम् – आत्मन्युत्कर्षप्रत्ययः (न्या० वा० पृ० १ ) ।
औदयिकः कर्मोदये सति भवन्भाव औदयिकः ( सर्व० सं० पृ० ६८
 
आई० ) ।
 
.