2023-10-22 11:35:23 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
एकत्वम् –
<एकत्वम्>
( संख्या ) [क] एकम् इति प्रतीतिविषयो गुणविशेषः

यथा गगनमेकम् काल एक इत्यादावेकत्वम् । रूपरसगन्धस्पर्श व्यतिरेका

दर्थान्तरमेकत्वम् ( वै० ७।२।१ ) इत्येवमेकत्वस्य सूत्रकृता अर्थान्तर

त्वमुक्तम् । [ख ] धीविशेषविषयत्वम् । यथा एकः समवायः एकः

अभाव इत्यादौ समवायादीनामेकत्वम् (वै० वि० ७।२।१ ) । [ग]

स्वरूपाभेद इति भूषणमतम् (वै० उ० ) (वै० वि० ७१२।१ ) ।

यथा घटगतमेकत्वं घटस्वरूपमेव । [६] स्वसजातीयनिष्ठभेदप्रति

सुबर्थ: (ग० व्यु० का० १ पृ० २) । तथा च स्वप्रकृत्यर्थसजातीयः

योगितानवच्छेदकैकत्वम् । यथा संपन्नो व्रीहिरित्यादौ व्रीह्या दिगतमेकत्वं

दकैकत्वमिति समुदितार्थ: । साजात्यं च स्वसमभिव्याहृतपदार्थसर्गि

स्वसमभिव्याहृतपदार्थसंसर्गित्वविशिष्टश्च यः तन्निष्ठभेद प्रतियोगितानवच्छे

खसजातीयेत्यत्र स्वं ब्रीह्यादि निष्ठमेकत्वमिति वङ्गदेशीया आहुः । परे तु

विशिष्टप्रकृत्यर्थतावच्छेदकरूपेण बोध्यम् ( ग० व्यु० का० १ पृ० २ ) ।

स्वम् एकवचनप्रकृत्यर्थः । स्वसमभिव्याहृतेत्यत्र स्वं तु एकवचनमित्याहुः ।

वयं तु उभयस्वपदाभ्यामेकवचनमेव ग्राह्यमिति ब्रूमः । इदं च

भाषिकं सजातीयद्वितीयरहितत्वरूपमेकत्वमिति बोध्यम् । अत एव
 
पारि
पशुना
 
रुद्र
 

यजेतेत्यादौ पशुनिष्ठतादृशैकत्वस्य विवक्षितत्वादनेकपशुकरण कयागाना

दृष्टसिद्धिः (ग० व्यु० का० १ पृ० २ ) । अत्राहुः । पशुना
रुद्र
यजेतेत्यादौ स्वप्रकृत्यर्थसजातीयः ( स्वसमभिव्याहृत पदार्थसंसर्गित्वविशिष्ट

प्रकृत्यर्थतावच्छेदकरू पविशिष्टः ) यागीयपशुरेव । तन्निष्ठभेद प्रतियोगि

तानवच्छेदकम् एतत्पशुनिष्ठमेकत्वमेव बोध्यत इति नानेकपशुकरणकया ।

गाददृष्टसिद्धिः इति । संपन्नो व्रीहिरित्यत्र लक्षणसमन्वय स्त्वित्थम् ।'
 

व्रीहिपदोत्तरमेकवचनम् सुप्रत्ययः । स्वस्य समभिव्याहृतं संपन्नः इति ।

पदम् । तदर्थप्रतियोगिकसंसर्गित्वविशिष्टं प्रकृत्यर्थतावच्छेदकं व्रीहित्वम् ॥

एतादृशरूपेण स्वसजातीय एतद्रीहिरेव । तन्निष्टो भेदोन्यनिषैकत्ववद

एव ( न त्वेतद्रीहिनिष्ठैकत्ववद्भेदः) । तत्प्रतियोगितानवच्छेदकम् एतद्रीहि
 

गतमेकत्वं भवति इति ।