2023-10-22 11:33:43 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१८५
 
न्यायकोशः ।
ए.
 
एक:-
<ए>
 
<एकः>
[क] सजातीयनिष्ठभेदाप्रतियोगी । यथा अत्रायमेको भुत इत्या-

दावेकपदार्थः । अत्र
 
एतद्देशाधिकरणकभोजनकर्तृनिष्ठभेदाप्रतियोगी

भुङ्क्ते इयाकारकबोधः (n० श० पृ० १२४ ) । [ ख ] केवलः ।

कैवल्यं च द्वितीयरहितत्वम् । एवं चत्ताकर्तृत्वादिविशिष्टसजातीय-

राहित्यम् । यथा अयमेकोत्र भुङ्क्त इत्यादाविति शाब्दिका आहुः । अत्र

एतद्देशाधिकरणकभोजनकर्तृसजातीयरहितो भुङ्क्ते इति बोधः। द्वितीय-

शब्दश्च सजातीये सहाये रूढः ( ल० म० ) । अत्र गदाधरः कैवल्यं

च सजातीयद्वितीयरहितत्वम् इत्याह ।
 
-
 
एक

 
<एक
कार्यकारित्वम्>
एककार्यत्ववदस्यार्थोनुसंधैयः ।
एककार्यत्वम् –

 
<एककार्यत्वम्>
(संगतिः) १ एककार्यानुकूलत्वम् ( म० प्र० पृ० १५)।

अत्रार्थे एकं कार्य ययोः कारणयोः तयोर्भावः इति व्युत्पत्तिः ( जग ० ) ।

बहुव्रीहेरनन्तरं त्वप्रत्ययः । यथा गुणागुणमनासङ्गमेककार्यमनन्तरम् ।

एतत्तु ब्रह्मणो वृत्तमाहुरेकपदं द्वयम् ॥ ( भा० व० अ० २१२ )
 

( वाच० ) । इदं तु कार्येक्यमित्यप्युच्यते । २ एकस्य (कारणस्य)

कार्यता (प्रयोज्यता कार्ययोः ) । सा च जन्यता जन्यज्ञानविषयता च

(भवा० ) (वै० सा० द० ) । यथा ईश्वरशक्त्योरनुमानाजन्यत्वेपि

तज्जन्यज्ञान विषयत्व लक्षणैककार्यत्वसंगत्या ईश्वरवादानन्तरं मीमांस

शक्तिराशङ्किता। नैयायिकेन च ईश्वरसिद्ध्यनन्तरं शक्ति निरस्य परम
 

प्रयोजनं त्वनुमानस्य पवर्गः इत्यनेन ईश्वरसिद्व्यपवर्गयोरनुमानजन्यत्व-

लक्षणैकार्यत्वं संगतिः सूचिता ( भवा० ) ।
 

 
<
एकत्र द्वयम् इति रीत्या जायमानं ज्ञानम्- >
उभयप्रकारतानिरूपितैक-
विशेष्यताशालिज्ञानम् ( ल० व० पृ० ९) । यथा सुन्दरः पुरुषो दण्डी

इत्याकारकं ज्ञानम् । अत्र सौन्दर्यदण्डयोः पुरुषे युगपद्विशेषणत्वेनान्वय-

विवक्षायां ज्ञानं तादृशं भवति । सौन्दर्यविशिष्टपुरुषे दण्डमात्रस्य दण्ड-

विशिष्टपुरुषे वा सौन्दर्यमात्रस्य विशेषणत्वेनान्वयविवक्षायां तु विशिष्टे

चैशिष्ट्यम् इति रीत्या ज्ञानं जायते इति ज्ञेयम् ।
 

२४ न्या० को०