This page has not been fully proofread.

१८५
 
न्यायकोशः ।
ए.
 
एक:- [क] सजातीयनिष्ठभेदाप्रतियोगी । यथा अत्रायमेको भुत इत्या-
दावेकपदार्थः । अत्र
 
एतद्देशाधिकरणकभोजनकर्तृनिष्ठभेदाप्रतियोगी
भुङ्क्ते इयाकारकबोधः (n० श० पृ० १२४ ) । [ ख ] केवलः ।
कैवल्यं च द्वितीयरहितत्वम् । एवं चत्ताकर्तृत्वादिविशिष्टसजातीय-
राहित्यम् । यथा अयमेकोत्र भुङ्क्त इत्यादाविति शाब्दिका आहुः । अत्र
एतद्देशाधिकरणकभोजनकर्तृसजातीयरहितो भुङ्क्ते इति बोधः। द्वितीय-
शब्दश्च सजातीये सहाये रूढः ( ल० म० ) । अत्र गदाधरः कैवल्यं
च सजातीयद्वितीयरहितत्वम् इत्याह ।
 
-
 
एक कार्यकारित्वम् – एककार्यत्ववदस्यार्थोनुसंधैयः ।
एककार्यत्वम् – (संगतिः) १ एककार्यानुकूलत्वम् ( म० प्र० पृ० १५)।
• अत्रार्थे एकं कार्य ययोः कारणयोः तयोर्भावः इति व्युत्पत्तिः ( जग ० ) ।
• बहुव्रीहेरनन्तरं त्वप्रत्ययः । यथा गुणागुणमनासङ्गमेककार्यमनन्तरम् ।
एतत्तु ब्रह्मणो वृत्तमाहुरेकपदं द्वयम् ॥ ( भा० व० अ० २१२ )
 
( वाच० ) । इदं तु कार्येक्यमित्यप्युच्यते । २ एकस्य (कारणस्य)
कार्यता (प्रयोज्यता कार्ययोः ) । सा च जन्यता जन्यज्ञानविषयता च
(भवा० ) (वै० सा० द० ) । यथा ईश्वरशक्त्योरनुमानाजन्यत्वेपि
• तज्जन्यज्ञान विषयत्व लक्षणैककार्यत्वसंगत्या ईश्वरवादानन्तरं मीमांस
• शक्तिराशङ्किता। नैयायिकेन च ईश्वरसिद्ध्यनन्तरं शक्ति निरस्य परम
 
• प्रयोजनं त्वनुमानस्य पवर्गः इत्यनेन ईश्वरसिद्व्यपवर्गयोरनुमानजन्यत्व-
लक्षणैकार्यत्वं संगतिः सूचिता ( भवा० ) ।
 
एकत्र द्वयम् इति रीत्या जायमानं ज्ञानम्- उभयप्रकारतानिरूपितैक-
विशेष्यताशालिज्ञानम् ( ल० व० पृ० ९) । यथा सुन्दरः पुरुषो दण्डी
इत्याकारकं ज्ञानम् । अत्र सौन्दर्यदण्डयोः पुरुषे युगपद्विशेषणत्वेनान्वय-
विवक्षायां ज्ञानं तादृशं भवति । सौन्दर्यविशिष्टपुरुषे दण्डमात्रस्य दण्ड-
• विशिष्टपुरुषे वा सौन्दर्यमात्रस्य विशेषणत्वेनान्वयविवक्षायां तु विशिष्टे
चैशिष्ट्यम् इति रीत्या ज्ञानं जायते इति ज्ञेयम् ।
 
२४ न्या० को०