2023-10-20 06:04:45 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
नान्या सत्त्वानां तदवयवानां च नियताद्व्यहादिति । नियतावयवव्यूहाः

खलु सत्त्वावयंवा जातिलिङ्गम् । शिरसा पादेन गामनुमिन्वन्ति । नियतेच

सत्त्वावयवानां व्यूहे सति गोत्वं प्रख्यायत इति ( वात्स्या० २।२।६७ ) ।

ख ] अवयवसंस्थान विशेषः । यथा घटस्य कम्बुग्रीवादिराकृतिः

(दि० ४ पृ० १७८) । [ग] रूपक्रियादिविशिष्टभवयव संस्थान

जातिलिङ्गमेवाकृतिरिति शाब्दिका वदन्ति । आकृतिश्च शक्यार्थ
 

केचित् ( पतञ्जलिप्रभृतयः ) मन्यन्ते ( वाच० ) ।
 
BAD
 

 
<
आक्षेपः->
१ अर्थापत्तिः ( न्या० म० ४५०६) (नील० पृ० २८ ) ।

अर्थापत्तिरित्यस्यानुमितिरित्यर्थः ( म० प्र० ४ पृ० ३९) । २ समान-
o
 

वित्तिवेद्यत्वमाक्षेप इति गुरवः ( न्या० म० ४ पृ० ६ ) alpam
 
आक्षेप-

श्वानुमानमर्थापत्तिर्वेति भट्टाः ( ग० शक्ति० ) । अत्र बहूनां विप्रति-

पत्तिरुदाह्रियते। गवांदिपदानां गोत्व एव शक्तिः व्यक्तिलाभस्त्वाक्षेपादित

मीमांसकाः । तत्र गोत्वं हि स्वाश्रयं विनानुपपन्त्रमिति तमाक्षिपतीति

भट्टा: ( न्या० म० ४ पृ० ६ ) (मु० ४ पृ० १७०) ( त०

दी० ४ पृ० २८) ( ग० शक्ति० पृ० ४१ ) । जातिवाचकपदा-

जातिबोधः शाब्दः । व्यक्तिबोधस्त्वौपादानिक एवेति श्रीकरमतम् । अत्रौ-

पदानिकत्वं च उपादानमर्थापत्तिस्तत्प्रयोज्यत्वम् जातिकारणत्वं वा

( ग० शक्ति० पृ० ४६ ) । व्यक्तेरपि बोध: शब्दादेव न त्वाक्षेपा

दितः । व्यक्तिशाब्दबोधे शक्तिविरहो नानुपपत्तिं प्रयोजयति । लक्षणात

एव तदुपपत्तिरिति मण्डनाचार्यमतम् ( ग० शक्ति० पृ० ४६ ) ।

 
<
आख्या >
संज्ञात्मकं नाम । यथा पश्चादुमाख्यां सुमुखी जगाम ( कुमा० )
 

इत्यादौ ।
 

 
<
आख्यातम्>
तिङ्- प्रत्ययानाम् आख्यातम् इति संज्ञा । अतोत्राख्यात

पदेन तिप् तस् झि इत्यादयोष्टादश प्रत्यया वैयाकरणसंमता गृह्यन्ते ।

तिङ्प्रत्ययार्थस्तु [क] कृतिः । यथा चैत्रस्तण्डुलं पचतीव्यादौ तिबर्थः ।