2023-10-20 06:00:07 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

११४
 
न्यायकोशः ।
 
<आकाशम्>
(द्रव्यम् ) [ क] संयोगाजन्यजन्यविशेषगुणसमानाधिकरण -

विशेषाधिकरणम् (सर्व० औल्लू० पृ० २१८ ) । तद्यथा संयोगा

जन्यो यो जन्यविशेषगुणः विभागजः शब्दः तत्समानाधिकरणो विशेषः

पदार्थप्रभेदः तदधिकरणत्वमाकाशेस्तीति । अत्र जन्यविशेषगुणः पाक-

जरूपादिः तत्समानाधिकरणविशेषाधिकरणे पार्थिवपरमाणावतिव्याप्ति

वारणाय संयोगाजन्येति । परमात्मन्यतिव्याप्तिवारणाय जन्येति । उभयं च

विशेषगुणविशेषणम् इति बोध्यम् । आकाशत्वं च शब्दसमवायिकारणत्वम्

( त० कौ० १ पृ० ७) (मु० १ पृ० ५२) । आकाशसत्त्वे प्रमा

णमनुमानम् । तच्च शब्दः पृथिव्याद्यष्टद्रव्यातिरिक्तद्रव्याश्रितः अष्टद्रव्यां

नाश्रितत्वे सति समवायिकारणवत्त्वात् यन्नैवं तन्नैवं यथा रूपमिति,

( सि० च० १ पृ० ९) । यद्यप्याकाशोतीन्द्रियस्तथापि विलक्षण-

( शब्दात्मककार्यान्यथानुपपत्त्या स स्वीकरणीयः (प्र० प्र० ) । अथवा

शब्दो गुणः चक्षुर्ग्रहणायोग्यबहिरिन्द्रियग्राह्यजातिमत्त्वात्स्पर्शवत् शब्दो

द्रव्यसमवेतो गुणत्वात्संयोगवत् इत्यनुमानाभ्यां शब्दस्य द्रव्यसमवे-

तत्वे सिद्धे पृथिव्याद्यष्टसु द्रव्येषु शब्दाधिकरणत्वस्य बाधात् शब्दा

धिकरणं नवमं द्रव्यं गगननामकं सिध्यति ( मु० १ पृ० ८६-८७)

(वै० सू० २ । १ । २७ ) (वै० उ० २।१।२७ ) । शाब्दिकास्तु इदं

नक्षत्रचक्रमत्र तिष्ठति अत्रैतदभावः इति निर्दिष्टवस्तुविषये पृथिव्यादे
 

राधारत्वासंभवेन तदाधारस्यैवाकाशसंज्ञकत्वम् इत्याहुः ( ल० म० ) ।
 

तत्रोक्तं हरिणा । आधारशक्तिः प्रथमा सर्वसंयोगिनामयम् । इदम

भावानामभावानां च कल्प्यते ॥ १ ॥ व्यपदेशस्तमाकाशनिमित्तं तु

प्रचक्षते । कालाक्रिया विभज्यन्ते आकाशात्सर्वमूर्तयः ॥ २ ॥ एता-
FF)
 
H
 
निष्क्रम-
10-30
 

वानेव भेदोयमभेदोपनिबन्धनः इति ( वाक्यप० ) । सांख्यास्तु ।
निष्क्रम-
णादिकं कर्म आकाशानुमापकम् इति आहुः (वै० सू० २/१२/२०)

( त० व० पृ० १२८ ) । अयं भावः । निष्क्रमणप्रवेशनाद्युत्क्षेपण

धर्मवत्त्वादाकाशसिद्धिरिति सांख्यादयो मन्यन्ते । एतदभिप्रायेण

उक्तम् अन्तरिक्षातु शब्द: शब्देन्द्रियं सर्वच्छिद्रसमूहो विविक्तता