This page has not been fully proofread.

११४
 
न्यायकोशः ।
 
आकाशम् – (द्रव्यम् ) [ क] संयोगाजन्यजन्यविशेषगुणसमानाधिकरण -
विशेषाधिकरणम् (सर्व० औल्लू० पृ० २१८ ) । तद्यथा संयोगा
जन्यो यो जन्यविशेषगुणः विभागजः शब्दः तत्समानाधिकरणो विशेषः
ॐ पदार्थप्रभेदः तदधिकरणत्वमाकाशेस्तीति । अत्र जन्यविशेषगुणः पाक-
• जरूपादिः तत्समानाधिकरणविशेषाधिकरणे पार्थिवपरमाणावतिव्याप्ति
वारणाय संयोगाजन्येति । परमात्मन्यतिव्याप्तिवारणाय जन्येति । उभयं च
विशेषगुणविशेषणम् इति बोध्यम् । आकाशत्वं च शब्दसमवायिकारणत्वम्
( त० कौ० १ पृ० ७) (मु० १ पृ० ५२) । आकाशसत्त्वे प्रमा
णमनुमानम् । तच्च शब्दः पृथिव्याद्यष्टद्रव्यातिरिक्तद्रव्याश्रितः अष्टद्रव्यां
नाश्रितत्वे सति समवायिकारणवत्त्वात् यन्नैवं तन्नैवं यथा रूपमिति,
( सि० च० १ पृ० ९) । यद्यप्याकाशोतीन्द्रियस्तथापि विलक्षण-
( शब्दात्मककार्यान्यथानुपपत्त्या स स्वीकरणीयः (प्र० प्र० ) । अथवा
शब्दो गुणः चक्षुर्ग्रहणायोग्यबहिरिन्द्रियग्राह्यजातिमत्त्वात्स्पर्शवत् शब्दो
द्रव्यसमवेतो गुणत्वात्संयोगवत् इत्यनुमानाभ्यां शब्दस्य द्रव्यसमवे-
• तत्वे सिद्धे पृथिव्याद्यष्टसु द्रव्येषु शब्दाधिकरणत्वस्य बाधात् शब्दा
•धिकरणं नवमं द्रव्यं गगननामकं सिध्यति ( मु० १ पृ० ८६-८७)
(वै० सू० २ । १ । २७ ) (वै० उ० २।१।२७ ) । शाब्दिकास्तु इदं
नक्षत्रचक्रमत्र तिष्ठति अत्रैतदभावः इति निर्दिष्टवस्तुविषये पृथिव्यादे
 
राधारत्वासंभवेन तदाधारस्यैवाकाशसंज्ञकत्वम् इत्याहुः ( ल० म० ) ।
 
तत्रोक्तं हरिणा । आधारशक्तिः प्रथमा सर्वसंयोगिनामयम् । इदम
भावानामभावानां च कल्प्यते ॥ १ ॥ व्यपदेशस्तमाकाशनिमित्तं तु
• प्रचक्षते । कालाक्रिया विभज्यन्ते आकाशात्सर्वमूर्तयः ॥ २ ॥ एता-
FF)
 
H
 
निष्क्रम-
10-30
 
वानेव भेदोयमभेदोपनिबन्धनः इति ( वाक्यप० ) । सांख्यास्तु ।
• णादिकं कर्म आकाशानुमापकम् इति आहुः (वै० सू० २/१२/२०)
( त० व० पृ० १२८ ) । अयं भावः । निष्क्रमणप्रवेशनाद्युत्क्षेपण
धर्मवत्त्वादाकाशसिद्धिरिति सांख्यादयो मन्यन्ते । एतदभिप्रायेण
उक्तम् अन्तरिक्षातु शब्द: शब्देन्द्रियं सर्वच्छिद्रसमूहो विविक्तता