2023-10-20 05:58:37 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
अन्वय बोघे जनिते नान्वयबोधान्तरं जनयति । स्वजन्यान्वयबोधवैधुर्य-

विरहात् । इतः सर्वे स्वरूपसन्तः शाब्दबोधे
 
हतवः न तु ज्ञाता इति
ज्ञेयम् ( न्या० म० ४ पृ० २२) । हतवः न तु ज्ञाता इति
 
[छ ]
 
पदार्थससंर्गावगमप्राग-
भावः (कु० ३ ) । [ज ] समभिव्याहृतपदस्मारित पदार्थजिज्ञासा ।

यथा घटमित्युक्ते आनय पश्य इति आनयेत्युक्ते घटं पटं वा इति

जिज्ञासा ( कु० टी० १३) । [झ ] एकपदार्थज्ञाने तदर्थान्वय-

योग्यार्थस्य यज्ज्ञानं तद्विषयेच्छेति शाब्दिका वदन्ति । [ञ ] पदार्थानां

परस्पर जिज्ञासाविषयत्वयोग्यत्वमाकाङ्क्षति मायावादिनः ( वेदा० प० ) ।

आकाङ्क्षा द्विविधा । उत्थाप्याकाङ्क्षा उत्थिताकाङ्क्षा चेति । अत्रेदं

ज्ञेयम्। आकाडा च शाब्दबोधगोचरेच्छा शब्देनैव विषयसिद्धिद्वारा

निवर्त्यते । अत्रायं न्यायः । शाब्दी ह्याकाङ्क्षा शब्देनैव प्रपूर्यते इति । अनेन
 

शब्दकल्पना आवश्यकी इति विज्ञेयम् । (त० प्र० ख० ४ पृ० २)।

 
<
आकार:>
१ विषयता निरूप्यनिरूपकभावापन्नतत्तद्विषयता वा । यथा

अयं घटः इत्याकारकं ज्ञानमित्यादौ तादृशविषयता ( वाक्यार्थ० २

पृ० २० ) । २ अभेदः ( तादात्म्यम् ) । यथा इत्याकारकं ज्ञानमित्यादौ

( वाक्यार्थ ० ) । यथा वा तथा चायम् इत्याकार उपनय इत्यादौ

( दीधि० पृ० १७०) ।
.
अभिनयः। उदाहरणं
( दीधि० पृ० १७०) । ३
तु पुर्वोक्तमेव
इत्याकार
त ।

 
इत्याकार
 
पनय उत । ४ अवयवसंस्थानविशेष इति काव्यज्ञा
 
FIX
 

वदन्ति । ५ सांख्यास्तु अभेदस्थानीयः पदार्थविशेषः विषयिताविशेषो

वा । यथा यत्संबद्धं सत् तदाकारोल्लेखि विज्ञानं तत्प्रत्यक्षमित्यादौ इत्यादुः
Sasara

( सां० सू० ) । ६ वर्णविशेष आकार इति शाब्दिकाः। ७ अतथा-

भूतस्य तथाभूतेन सामान्यम् । तद्यथा स्थाण्वाकारः पुमान् इत्यत्र पुरुषस्य

स्थाणोराकारः पुरुषेण यत् सामान्यम् सः ( न्या० वा० १/१/१३-१४
 
प्रमाण
 

पृ० ७६ ) ।
 
OF OF
 

 
<आकारकत्वम्>
विषयिताविशेषः । यथा घटपदात्
घटत्वविशिष्टो बोद्धव्यः
 
आकारकत्वम् – विषयिताविशेषः । यथा घटपदातू

इत्याकारकत्वविशिष्टेच्छेत्यादौ ( म०प्र० ४ पृ० ३७) ।
 

१५ न्या० को०