This page has not been fully proofread.

न्यायकोशः ।
 
आकाङ्क्षाविरहात् (त० कौ० ४ पृ० १७ ) ( त० सं० ) । तदर्थस्तु
यस्य येन विना स्वार्थान्वयाननुभावकत्वम् तस्य तत्पदसंनिधानम् इति
(चि०) । [ख] स्वरूपयोग्यत्वे सत्यजनितान्वयबोधजनकत्वम्
(तको० ४ पृ० १० ) । तेन घटः कर्मत्वम् आनयनम् कृतिः इत्यत्र
नान्वयबोधः । स्वरूपायोग्यत्वात् । तथा अयमेति पुत्रो राज्ञः । पुरुषोप-
सार्यताम् । इत्यत्र राज्ञः पुरुषः इति नान्वयबोधः । पुत्रेण जनितान्वय-
बोधकत्वात् ( तर्का० ४ पृ० १० ) । [ग] यत्पदं यत्पदेन सह
यादृशानुभवजनकं भवेत् तत्पदस्य तत्पदसमभिव्यहारस्ता
• आकाङ्क्षा । भवति हि नामपदम् उत्तरवर्तिविभक्तिपदेनैव सहान्वय
बोधकम् । अतस्तत्समभिव्याहारस्तादृशान्वयबोध आकाङ्क्षा । अत एव
घटः कर्मत्वम् आनयनम् कृतिः इति वाक्यात् घटमानय इतिवत् न
घटकर्मकानयनानुकूलकृतिमान् इति बोधः । आकाङ्क्षाविरहात् (०
म० ४ पृ० २१ ) । [घ ] पदस्य पदान्तरव्यतिरेक प्रयुक्तान्वयाननु
भावकत्वम् ( त० सं० ४) ( कु० ) (मु० ४ पृ० १८८) । तदर्थव
यत्पदस्य यत्पदाभावप्रयुक्तमन्वयबोधाजनकत्वं तत्पदसमभिव्याहृततत्पद-
• त्वम् ( नील० ४ पृ० ३२ ) (मु० ) । [ङ यस्य पदस्य येन पदेन विना-
• न्वयबोधजनकत्वं नास्ति तस्य पदस्य तेन पदेन समभिव्याहार आ
(त० कौ ०
To २ पृ० १६ ) ( प्र० प्र० ) । यथा घटमानयेत्यादौ क्रिया-
पदकारकपदयोराकाङ्क्षा । अत्र कारकपदस्य क्रियापदेन विना घटकर्मक-
काङ्क्षा । एवं क्रियापदस्य कारकपदेनापि सह बोध्या ( प्र० प्र० )
मानयनम् इत्यन्वयबोधजनकत्वाभावात्कारकपदस्य क्रियापदेन स
( त० कौ० पृ०१६-१७ ) । वस्तुतस्तु प्रत्यये प्रकृत्युत्तरत्वमेवाकाङ्क्षा
(मु० ४ पृ० १८८) । एवं वैयाकरणमते विभक्तिधात्वाख्यात
क्रियाकारकपदानां परस्परं विना परस्परस्य न स्वार्थान्वयानुभावकत्वम्
( वाच० ) । [ च ] प्रकृतान्वयबोधसमानाकारस्वजन्यान्वयबोधविर
 
( न्या० म० ४ १० २२ ) । अतो घटमानयति इति पदं एकदा
 
११२
 
www