न्यायकोशः /165
This page has been fully proofread once and needs a second look.
१११
प्रमा
३
असति साधने कस्येदं साध्यम् । अथ युगपत्साध्यसाधने द्वयोर्विद्य-
मानयोः किं कस्य साधनं किं कस्य साध्यमिति हेतुना न विशिष्यते ।
अहेतुना साधर्म्यात्प्रत्यवस्थान महेतुसमः (वात्स्या० ५/१/१८) (नील ०
पृ० ४४ ) । प्रतिकूलतर्कदेशनाभासोयम् इति बोध्यम् ( गौ० वृ०
५ । १ । १८ ) । हेतुसमेति पाठे तु कालत्रयेपि हेतुत्वस्यासंभवकथनं
हेतुसमेत्यर्थः (नील० । [ ख ] कालसंबन्धखण्ड
। [ख
तया प्रत्यवस्थानम् । अयमर्थः । दण्डादिकं घटादेर्न पूर्ववर्तितया कारणम् ।
तदानीं घटादेरभावात् कस्य कारणं स्यात् । अत एव न घटाद्युत्तर-
कालवर्तितयापि । न वा समानकालवर्तितया । तुल्यकालवर्तिनोः सव्ये -
विषाणयोरवावगमनापत्तेः । कारणमात्रखण्डनेन इप्तिहेतोरपि
खण्डनान्न तदसंग्रह: ( गौ० वृ० ५/१/१८ ) । [ग] कालत्रयेपि
हेतुत्वासंभवेना हेतुत्वकथनम् (नील० पृ० ४४ ) ।
TERRIE CO
<अहोरात्रम्
लध्वक्षरसमा मात्रा निमेषः परिकीर्तितः । अतः सूक्ष्म-
तरः कालो नोपलभ्यो भृगूत्तम ॥ नोपलभ्यं यथा द्रव्यं सुसूक्ष्मं पर-
माणुतः । द्वौ निमेषौ त्रुटिर्ज्ञेया प्राणो दशत्रुटिः स्मृतः ॥ विनाडिका तु
षट् प्राणास्तत्षष्ट्या नाडिका स्मृता । अहोरात्रं तु तत्षष्ट्या नित्यमेव प्रकी-
र्तितम्॥ त्रिंशन्मुहूर्ताश्च तथा अहोरात्रेण कीर्तिताः (पु० चि० पृ० २ ) ।
DR
-
<आ.
<आकर्षणम्
गतिहेतुविकर्षणम् । यथा शाखां ग्राममाकर्षति देवदत्त
इत्यत्र धात्वर्थः । अत्र ग्रामकर्मकं यच्छाखागमनं तदनुकूलविकर्षणवान्
इति बोधः । विकर्षणं नम्रीकरणम् ( श० प्र० पृ० ९९) ।
BRET
श्री
म
<आकस्मिकम्> – यत्किंचित्कारणानियम्यम् ( दि० १ प्र० ६३ ) । यथा
अकस्मादेव भवति कार्य न किंचिदपेक्षमिति तदेतन्मतमित्यादौ ।
-
<आकाङ्क्षा
[क] अभिधानापर्यवसानम् । इयं च ज्ञाता सती शाब्दबोधे
1
शब्दस्य सहकारिणी । अत एव गौरवः पुरुषो हस्तीत्यादौ नान्वयबोधः ।