2023-10-20 05:45:57 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१०९
 
असूया च कोपमूलिका (ल० म० पृ० १०३ ) । [ ख ] शाब्दिकास्तु

शौचाचारादिगुणविषये
 
दम्भादिक्कृतत्वरूपदोषारोपानुकूलश्चित्तवृत्तिवि

शेषः । यथा हरये असूयतीत्यादौ इत्याहुः ( ल० म० पृ० १०३ ) ।

[ ग ] परगुणादौ द्वेषः ( गौ० वृ० ४ । १ । ३ ) । [घ ] गुणद्वेषः ।

यथा पुत्रायासूयतीत्यत्र धात्वर्थः । अत्र पुत्रस्य गुणं द्वेष्टि इत्याकारको

बोध:
:
( श० प्र० पृ० ८७)।
 

 
<
अस्तिकायः
>
पदार्थः । स च पञ्चविधः । जीवाकाशधर्माधर्मपुद्गला-

स्तिकायमेदात् । अत्र जीवादीनां पुद्गलान्तानां पञ्चानां द्वंद्वः । तत-

श्वास्तिकायशब्देन कर्मधारयः समासः । एवं च जीवादीनां पञ्चानाम्

अस्तिकाय इति संज्ञा बोध्या । एतेषु पञ्चसु तत्त्वेषु कालत्रयसंबन्धि-

तया अस्तीति स्थितिव्यपदेशः । अनेकप्रदेशत्वेन शरीरवत्कायव्यपदेशः

10 ( सर्व० सं० पृ० ६९ आर्हत० ) ।
 

 
<
अस्तित्वम्>
[ क ] कालसंबन्धित्वम् (दि० १) (प० मा० ) ।

यथा घटोस्तीत्यादौ घटादेरस्तित्वम् । [ ख ] अस्-शब्दवदस्यार्थोनु -
 

संधेयः ।
 

 
<
अस्तेयव्रतम्>
अनादानमदत्तस्यास्तेयव्रतमुदीरितम् ( सर्व० सं० पृ० ६५

आई० ) ।
 

 
<
अस्मद्>
अहम् - शब्दवदस्यार्थोनुसंधेयः ।
 

 
<
अस्मिता>
सत्त्वपुरुषयोरहमस्मीत्येकताभिमानः अस्मिता । तदप्युक्तम् दृग्द-

र्शनशक्त्योरे कात्मत्वाभिमानोस्मिता इति ( सर्व० सं० पृ० ३६२
 

पातञ्ज • ) ।
 
-
 

 
<
अहंकारः>
१ अहमित्यभिमानः । स च शरीरादिविषयको मिथ्याज्ञान विशेष

उच्यते । स च दोषनिमित्तानां शरीरादीनां तत्त्वस्यानात्मत्वस्य ज्ञानानिवर्तते ।

आत्मत्वेन हि शरीरादौ मुह्यन् रञ्जनीयेषु रज्यति कोपनीयेषु कुप्यति(गौ०

वृ० ४।२।१ ) । २ अभिमानाश्रयोन्तःकरण महंकार इति मायावादिनः ।