2023-10-19 16:10:22 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
नि
 
पर्वतो वह्निमान् इत्यनुमितिः । अत्र नवीनमते पक्षतावच्छेदक व्यापकत्वं

साध्ये साध्यसंबन्धे वा संसर्गतया संसर्गतावच्छेदकतया च यथाक्रमं
whatmy

भासते । अतोवच्छेदकावच्छेदेनानुमितेर्न पर्वतत्वाद्यवच्छिन्नवह्निमान् पर्वतः

इत्याकारकता इति बोध्यम् । अत्रेदमवधेयम् । यत्र देशकालयोः पक्षता-

बच्छेदकता यथा मूलावच्छिन्नो वृक्षः कपिसंयोगीत्यादौ उत्पत्तिकालाव-

च्छिन्नो घटो गन्धवानियादौ च तत्र स्वरूपसंबन्धरूपावच्छेद्यावच्छेदक-

भावावगाहिन्येवानुमितिर्भवति । यत्र तु देशकालभिन्नानां पक्षतावच्छेद-

कता यथा पर्वतो वह्निमानित्यादौ पृथिवी रूपवतीत्यादौ च तत्र

व्याप्यव्यापकभावरूपावच्छेद्यावच्छेदकभावावगाहिन्यनुमितिर्भवतीति (ग०
 
1597015
 

पक्ष० पृ० २० ) ।
 

 
<
अवदानम् - >
हविष्टप्रयोजकः संस्कारः ( जैमि० न्या० १०।७ अधि०१) ।
 
-
 

 
<
अवधानम् - >
चित्तस्य विलक्षण: संबन्धविशेषः । तद्द्विविधम् । अनुपेक्षणी-

यत्वं विषयान्तरसंचारराहियं च ( त० प्र० २ ) । यथा शिष्याव-

धानाय चिकीर्षितं प्रतिजानीते इत्यादौ ( म०प्र० १ १० ३ ) ।
 

 

 
<
अवधारणत्वम् - >
एकाकारावगाहिज्ञानत्वम् इति वेदान्तिन आहुः ( प्र०

प० टी० वेदेश० पृ० ६ ) ।
 
1
 

 
<
अवधारणम्>
तदभावाप्रकारकं तत्प्रकारकं ज्ञानम् (गौ० वृ० १।१।४०) ।

यथा घटे अयं घट इति घटत्वाभावाप्रकारकं घटत्व प्रकारकं ज्ञानं

निर्णयात्मकम् अर्थस्यावधारणम् । अत्रावधारणत्वं च [ १ ] निश्चयनिष्ठो

विषयताविशेष: ( मू० म० १ ) । [ २ ] अवधारणत्वं न निर्णयत्वम्
रा


किं तुत्कटनिश्चयत्वम् । औत्कट्यं च विषयतविशेष इति मिश्राः
(

सत्प्र० पृ०
१७ - १८ ) । अयं भावः - तन्मते
व्याप्यदर्शनाधीनज्ञाना-
नन्तरमेव अवधारयामि इत्यनुव्यवसायोदयेन व्याप्यदर्शनात्मक विशेषदर्श-

निजन्य एव प्रत्यक्षेनुमियात्मके च ज्ञाने अवधारणत्वं स्वीक्रियते न तु

निश्चय सामान्य इति
।ree of th
 
(किं
 

 
.
 
|