This page has not been fully proofread.

न्यायकोशः ।
 
नि
 
पर्वतो वह्निमान् इत्यनुमितिः । अत्र नवीनमते पक्षतावच्छेदक व्यापकत्वं
साध्ये साध्यसंबन्धे वा संसर्गतया संसर्गतावच्छेदकतया च यथाक्रमं
whatmy
भासते । अतोवच्छेदकावच्छेदेनानुमितेर्न पर्वतत्वाद्यवच्छिन्नवह्निमान् पर्वतः
इत्याकारकता इति बोध्यम् । अत्रेदमवधेयम् । यत्र देशकालयोः पक्षता-
बच्छेदकता यथा मूलावच्छिन्नो वृक्षः कपिसंयोगीत्यादौ उत्पत्तिकालाव-
च्छिन्नो घटो गन्धवानियादौ च तत्र स्वरूपसंबन्धरूपावच्छेद्यावच्छेदक-
भावावगाहिन्येवानुमितिर्भवति । यत्र तु देशकालभिन्नानां पक्षतावच्छेद-
कता यथा पर्वतो वह्निमानित्यादौ पृथिवी रूपवतीत्यादौ च तत्र
व्याप्यव्यापकभावरूपावच्छेद्यावच्छेदकभावावगाहिन्यनुमितिर्भवतीति (ग०
 
1597015
 
पक्ष० पृ० २० ) ।
 
अवदानम् - हविष्टप्रयोजकः संस्कारः ( जैमि० न्या० १०।७ अधि०१) ।
 
-
 
अवधानम् - चित्तस्य विलक्षण: संबन्धविशेषः । तद्द्विविधम् । अनुपेक्षणी-
यत्वं विषयान्तरसंचारराहियं च ( त० प्र० २ ) । यथा शिष्याव-
धानाय चिकीर्षितं प्रतिजानीते इत्यादौ ( म०प्र० १ १० ३ ) ।
 

 
अवधारणत्वम् - एकाकारावगाहिज्ञानत्वम् इति वेदान्तिन आहुः ( प्र०
प० टी० वेदेश० पृ० ६ ) ।
 
1
 
अवधारणम् – तदभावाप्रकारकं तत्प्रकारकं ज्ञानम् (गौ० वृ० १।१।४०) ।
यथा घटे अयं घट इति घटत्वाभावाप्रकारकं घटत्व प्रकारकं ज्ञानं
• निर्णयात्मकम् अर्थस्यावधारणम् । अत्रावधारणत्वं च [ १ ] निश्चयनिष्ठो
विषयताविशेष: ( मू० म० १ ) । [ २ ] अवधारणत्वं न निर्णयत्वम्
रा

( ग०
१७ - १८ ) । अयं भावः - तन्मते
नन्तरमेव अवधारयामि इत्यनुव्यवसायोदयेन व्याप्यदर्शनात्मक विशेषदर्श-
निजन्य एव प्रत्यक्षेनुमियात्मके च ज्ञाने अवधारणत्वं स्वीक्रियते न तु
निश्चय सामान्य इति
।ree of th
 
(किं
 

 
.