This page has not been fully proofread.

न्यायकोशः ।
 
-
 
प० १७ ) । ६ तदधिकरणावृत्तित्वेन ज्ञायमानत्वम् ( वै० उ० ९।
७११८ ) । ज्ञायमानत्वमित्यत्र ज्ञानपदं प्रमापरम् । तेन घटत्वादेः समाना-
धिकरणधर्मस्य घटाद्यभावीय प्रतियोगितावच्छेदकत्व निरासः । यथा घट-
! त्वेन पटो नास्तीत्यादौ घटत्वे पटनिष्ठप्रतियोगिताया अवच्छेदकत्वम् ।
अत्र तृतीयान्तोल्लेख्यस्यावच्छेदकत्वम् इति नियममनुसृत्य केवलान्वयी
व्यधिकरणधर्मावच्छिन्नाभावः सौन्दडोपाध्यायेन स्वीकृतः । गङ्गेशो-
पाध्यायादयो नैयायिकास्तु नेमं व्यधिकरणधर्मावच्छिन्नाभावं स्वीचक्रुरिति
• विज्ञेयम् । यद्यप्येतस्यार्थान्तराभिप्रायेणोच्चारितस्यात्र ग्रहणं नोपस्कारसंद-
र्भमनुसरति तथाप्यत्रार्थेपि नियोक्तुं युज्यत इति मयायं शब्दोत्र गृहीत
इति बोध्यम् । ७ विशेषणत्वम्। यथा वक्तृज्ञानावच्छेदकतयेत्यादौ (कु० ३
लो० १४ व्या० ता० पृ० ३४ ) । ८ नियामकत्वमेवावच्छेदकत्व-
• मिति केचिद्वदन्ति ( वाच० ) । सामान्यतोवच्छेद्यावच्छेदकभावो
द्विविधः । स्वरूपसंबन्धरूपः व्याप्यव्यापकभावश्च । तत्राद्यो यथा
 
इदानीं चत्वरे गौर्नास्तीत्यांदावेतत्कालगवाभावयोरवच्छेद्यावच्छेदकभावः ।
 
● अत्र एतत्कालावच्छेदेन ( एतत्काले ) गवाभावः इति शाब्दबोधो भवतीति
बोध्यम् । यथा वा मूलावच्छिन्नो वृक्षः कपिसंयोगीत्यादौ मूलादि-
संयोगाद्यवच्छेद्यावच्छेदकभावः । द्वितीयो यथा पृथिवी रूपवतीत्यादौ
रूपपृथिवीत्वयोरवच्छेद्यावच्छेदकभावः ( ग० पक्ष० पृ० २०) । अत्र
 
● पृथिवीत्वव्यापक रूपम् इति शाब्दो बोधो भवतीति बोध्यम् ।
 
अवच्छेद्यत्वम्—अवच्छिन्नत्ववदस्यार्थोनुसंधेयः ।
 
अवच्छेद्यावच्छेदकभावावगाहिनी – ( अनुमितिः ) [ क ] पक्षतावच्छे-
• दकाक्रान्तयावद्व्यक्तिविषयकानुमितिरिति प्राञ्चो नैयायिका वदन्ति । इयं
च देशकालभिन्नानां यत्र पक्षतावच्छेदकता तादृशस्थलीयेति ज्ञेयम् ।
एवमुत्तरत्रापि । [ख] पक्षतावच्छेदकव्यापकत्व विशिष्टसाध्यतावच्छेद-
• कसंबन्धावच्छिन्ना साध्यतावच्छेदकावच्छिन्ना या विधेयता तच्छा लिन्यनु-
• मितिरिति नवीननैयायिकाः प्राहुः । यथा पर्वतत्वावच्छेदेन वहौ साध्ये.