This page has not been fully proofread.

न्यायकोशः ।
 

 
त्वम् । अत्रेदं बोध्यम् । देशे वृत्तौ कालस्यावच्छेदकत्वम् काले वृत्तौ
देशस्यावच्छेदकत्वम् इति नियमेन गवाभावावच्छेदकत्वं कदाचिद्देशस्य
कदाचित्तु कालस्यापि संभवति इति । किंचात्र अवच्छेद्याधिकरणत्वं
यस्य संभवति तस्यैवावच्छेदकत्वम् इति नियमोप्यङ्गीकर्तव्यः
तेन प्रलयस्य गवावच्छेदकत्वापत्त्यसंभवः (ग० च० १ स्वलक्षण ० ) ।
छेतु स्वरूपसंबन्धरूपमेवेति नियमोत्र ज्ञेयः ।
२ अवच्छेदकत्वाख्यो विषयतात्मकः स्वरूपसंबन्धविशेषः । यथा पर्वते
वह्निसाधने पर्वतत्वस्य पर्वतो वह्निमान् इत्यनुमित्यात्मकज्ञानीयवह्निनिष्ठ-
विधेयतानिरूपितोद्देश्यतावच्छेदकत्वम् । ३ स्वाश्रयजन्यत्वम् स्वाश्रय-
विशेषणत्वं वा । यथा धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वमित्यादौ
फले धात्वर्थताया अवच्छेदकत्वम् । स्वं धात्वर्थता । तदाश्रयो
व्यापाररूपो धात्वर्थः । तज्जन्यत्वं फले । शाब्दिकास्तु फलावच्छिन्न-
व्यापार इत्यादौ फलसंबन्धिव्यापारः इति बोधोदयात् संबन्ध एवात्रा-
वच्छेदकत्वमित्याहुः ( वै० सा० द० सु० ) । ४ व्यापकत्वम् । यथा
पर्वतत्वावच्छेदेन वहौ साध्ये पर्वतो वह्निमानित्यादौ पर्वतत्वव्यापकवह्नि-
प्रतियोगिकसंयोगत्वस्यावगाहमानं संसर्गतावच्छेदकत्वम् (ल० व०
पृ० २२ ) । अत्र पर्वतत्वव्यापकवह्निप्रतियोगिकसंयोगस्याप्रसिद्ध्या
तादृशसंयोगत्वे संसर्गताया अवच्छेदकत्वं न भासते अपितु केवल-
संयोग एव पर्वतत्वव्यापकत्वं संसर्गतावच्छेदकत्वेन (अवच्छेदककोटि-
प्रविष्टानामध्यवच्छेदकत्वमिति पक्षे ) भासते इति तु वयम् । ५ व्याप्य-
त्वम् । यथा यद्रूपावच्छिन्नविषयतानिरूपित विषयिता अनुमितिप्रतिबन्धक-
तावच्छेदिका तद्रूपावच्छिन्नत्वमिति हेत्वाभाससामान्यलक्षणे हृदो न
वह्निमान् इति निश्चयीयविषयितायां हृदो वह्निमान् इत्यनुमिति निष्ठप्रति -
• बध्यता निरूपित प्रतिबन्धकताया अवच्छेदकत्वम् । व्याप्यत्व मित्यस्य
स्वव्यापकतत्कत्वमित्यर्थः ( ग० सामा० प० ९) । कचिच्च स्वव्यापक-
तत्कान्यत्व-तत्सामानाधिकरण्य- एतदुभयाभाववत्त्वम् । तेन व्यधिकरण -
धर्मस्य प्रतियोगितावच्छेदकत्वं संगच्छते ( ग० च० द्वितीयस्वलक्षण •
 
1