2023-10-19 15:24:04 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
D
 
समञ्जसम् । २ सामानाधिकरण्यम् । यथा वह्निव्यायधूमवान्पर्वतः इति

परामर्श निरूपितयो धूमनिष्ठ विषयतयोर वच्छेद्यावच्छेदकभावः । अत्रेदं

बोध्यम् - मध्यवृत्तिविषयतयोर्भेदपक्षे पर्वतत्वावच्छिन्नविशेष्यता निरूपितधू-

मनिष्ठप्रकारत्वस्य व्याप्तिनिष्ठ प्रकारता निरूपितधूमत्वावच्छिन्न विशेष्यत्वस्य

च परस्परमवच्छेद्यावच्छेदकभावः सामानाधिकरण्यात्मकः स्वीकृत इति ।

३ स्वरूपसंबन्धविशेषः । यथा अग्रे वृक्षः कपिसंयोगी न मूले इत्यादौ

कपिसंयोगस्याप्रावच्छिन्नत्वम् । वृक्षसंबन्ध्यग्रभागवृत्तित्वमित्यर्थः । ४

विशिष्टत्वम् । यथा घटत्वावच्छिन्नो घट इत्यादौं घटस्य घटत्वावच्छिन्न-

त्वम् । ५ साहित्यम् । यथा शरीरावच्छिन्न आत्मनि भोगो जायत

इत्यादौ आत्मनः शरीरावच्छिन्नत्त्रम् । ६ अनुकूलत्वम् प्रयोजकत्वं वा ।

यथा फलावच्छिन्न व्यापारो धात्वर्थ इत्यादौ व्यापारस्य फलावच्छिन्नत्वम् ।

५११७ संबन्ध इति शाब्दिका वदन्ति ( वै० सा० द० ) । ८ इयत्ताकरणम् ।

यथा द्रोणावच्छिन्नो नीहिरित्यादौ । ९ सीमाकरणम् । यथा गृहावच्छिन्न

आकाशः कर्णशष्कुल्यवच्छिन्न आकाश इत्यादौ । एवमन्तःकरणावच्छिन्नं

चैतन्यं जीव इति मायावादिमतेपि ज्ञेयम् ( वाच० ) ।

 
<
अवच्छेदः>
१ प्रतियोगी । यथा अवच्छेदग्रहन्ध्रौव्यादध्रौव्ये सिद्धसाधना-

दित्यादौ (कु० ३ श्लो० २२ टी० ) । २ व्याप्तिः ।
यथा पक्षताव-
च्छेदकावच्छेदेन साध्यसिद्धावित्यादौ साध्यनिरूपिता पक्षतावच्छेदकनिष्ठा

व्याप्तिः ।
अथ व्यापकत्वमप्यंवच्छेदशब्दस्यार्थः संभवति । तथा च

पक्षतावच्छेदकव्यापकत्वविशिष्टसाध्यसिद्धौ इति बोधः । ३ इयत्ताकर-

णम् । यथा अग्रावच्छेदेन
कपिसंयोगः मूलावच्छेदेन कपिसंयोगाभाव
इत्यादौ । ४ अवधारणम् । यथा शब्दार्थानामवच्छेदे ( शब्दार्थस्थान
-
वच्छेदे ) विशेषस्मृतिहेतव इत्यादौ । ५ इयत्ताकरणसाधनम् । यथा

अप्रे वृक्षः कपिसंयोगी न मूल इत्यादौ संयोगादेरव्याप्यवृत्तित्वनियामको
"

वृक्षैकावयवो मूलाग्रादिप्रदेश: ( वाच० )। यथा वा इदानीं चत्वरे

गौर्नास्तीत्यादा वेतःकालोप्यवच्छेदो
 
JTSTE FOT
 
कपिसंयोगः
 
मूलावच्छेदेन
 
भाव
 

 
भवति । अत्रायें अवच्छिद्यतेनेनेति

करणे घञ् । तेनावच्छेदकशब्दार्थः संपन्न इति ज्ञेयम् । ६ संकोचः ।