This page has not been fully proofread.

न्यायकोशः ।
 
शिष्टाचारविषयत्वात् दर्शादिवत् ( मू० म० मङ्ग० १ पृ० १६ )
इत्यादावाचारस्य मङ्गलस्य वा अलौकिकत्वम् । [ ख ] उपाध्यायास्तु
लोकावगतबलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनताश्रयान्यत्वम् इत्याहुः
( मू० म० मङ्ग० १ पृ० १७ ) । [ग] रागतोप्राप्तत्वमित्यस्मद्गुरु-
चरणाः प्राहुः । [ घ ] वेदबोधितेष्टसाधनताकत्वमिति मीमांसकाः
( मू० म० १ ) ।
 
अलौकिक प्रत्यक्षम् – ( प्रत्यक्षम् ) अलौकिकसंनिकर्षजन्यं प्रत्यक्षम् । अत्र
संनिकर्षे अलौकिकत्वं च सामान्यलक्षणज्ञानलक्षणयोगज एतदन्यतम-
त्वम् । विषयताविशेषो वा । यथा धूमत्वज्ञानानन्तरं सामान्यलक्षणप्र-
त्यासच्या जायमानं सर्वे धूमा घूमत्ववन्तः इति घूमत्वाश्रयसकलघूमवि
 
षयकं प्रत्यक्षम् ( मु० १ पृ० १२७ ) ।
 
अवकीर्णी— ब्रह्मचारी सन् स्त्रीरतः ( जै० सू० वृ० ६ ।८।२४ ) ।
अवक्षेपणम् – ( कर्म ) अपक्षेपणवदस्यार्थोनुसंधेयः ।
अवगाह- अन्यवस्तुप्रदेशमध्ये अन्यस्य वस्तुनः प्रवेशोवगाहः ( सर्व०
 
सं० पृ० ७१ आई० ) ।
 
अवगाहनम् -[क विषयिता । यथा घटवद्भूतलम् इति ज्ञानं घटा-
• द्यवगाहीत्यादाववगाहनं विषयिता भवति । [ख विषयीकरण मित्
 
केचिद्वदन्ति ।
 
अवचरः - साधनम् (जै० सू० वृ० ३।१।२१ ) ।
 
८२
 
अवच्छिन्नत्वम् - १ व्यापकत्वम् ( मू० म० १ ) । यथा हृदे वद्दिम-
ताया अवच्छिन्नत्वम् ( ग० सामा० ) । अवच्छिन्नत्वावच्छेदकत्वयोः
ताबुद्धिनिरूपित प्रतिबन्धकतायां हृदो न वह्निमान् इति निश्चयीयविषयि
(खरूपसंबन्धरूपयो; ) तुल्यवित्तिवेद्यत्वेन साकाङ्क्षत्वेन
निरूप्यनिरूपकभावो बोध्यः । तथा चावच्छेदकता निरूप कता कत्वमेवा-
वच्छिन्नत्वमित्युत्त्यैव निर्वाहेवच्छिन्नत्वनिरुक्तिः शिष्यबुद्धिवैशद्यायेति स
 
च परस्परं