This page has not been fully proofread.

८०
 
न्यायकोशः ।
 
साध्याभावस्तत्र साधनाभावः । तथा च साध्याभावेन साधनाभावस्य
सिद्धावपि साध्यसिद्धौ न तस्योपयोगः । कथं तर्हि धूमादावन्वयव्याप्तिम-
विदुषोपि व्यतिरेकव्याप्तिज्ञानादनुमितिरिति चेत् । अर्थापत्तिप्रमाणादिति
बोध्यम् । वेदान्तपरिभाषायां स्पष्टमेतत् ।
 
-
 
अर्थापत्तिसमः – (जातिः ) [ क ] अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्ति-
समः (गौ० ५/१/२१ ) । अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद्धट-
वदिति स्थापिते पक्षे अर्थापत्या प्रतिपक्षं साधयतोर्थापत्तिसमः । यदि
प्रयत्नानन्तरीयकत्वादनित्यसाधर्म्यादनित्यः
 
शब्द इति अर्थादापद्यते
 
नित्य साधर्म्यान्नित्यः इति । अस्ति त्वस्य नित्येन साधर्म्यमस्पर्शत्वमिति
(वात्स्या० ५।१।२१) । [ ख ] अर्थापत्त्याभासेन प्रतिपक्षसाधनाय प्रत्य-
वस्थानम् । अयमाशयः- अर्थापत्तिह्युक्तेनानुक्तमा क्षिपति । यथा - अनित्यः
शब्द इत्युक्तेदान्यन्नित्यम् । तथा च दृष्टान्तासिद्धिर्विरोधश्च ।
• कृतकत्वादनित्य इत्युक्तेर्थादापन्नम् अन्यस्माद्धेतोर्बाधः सत्प्रतिपक्षो वा ।
• अनुमानादनित्य इत्युक्ते प्रत्यक्षान्नित्य इति च बाधः ( गौ० ०
५।१।२१ ) । [ ग ] अर्थापत्तिपुरस्कारेण साध्याभावोद्भावनम् ।
अनित्यः शब्दः कार्यत्वादित्यादौ शब्दस्यानित्यसाधर्म्यादनित्यत्वं यि
तदा अर्थापत्त्या सिद्धं नित्यसाधर्म्यान्नित्यत्वमपि । एकतरावधारणे नियाम-
काभावादिति ( नील० पृ० ४४ ) । [घ ] व्याप्तिं विना वादि- ।
बाक्यादर्थापेक्षाभिमानतः। विपरीतसमारोपमर्थापत्तिसमं विदुः ॥ (ता०
२० २ श्लो० १२० ) ।
 
अर्थी – साध्यस्यार्थस्य निर्देष्टा ( मिताक्षरा० अ० २ श्लो० ८० ) ।
अर्धोदयः – अमार्कपातश्रवणैर्युक्ता चेत्पौषमाघयोः । अर्धोदयः स विज्ञेयः
 
कोटिसूर्यग्रहैः समः ॥ ( पु० चि० पृ० ३१६ ) ।
 
अहेन्– सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः । यथास्थितार्थवादी च देवो-
र्हन्परमेश्वरः ( सर्व० सं० पृ० ५६ आर्हत० ) ।