2023-10-19 13:55:48 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
७९
 
3
 
-
 
पपद्यमानेनार्थेनोपपादककल्पनम् । यथा वृष्ट्या मेघज्ञानम् ( गौ० पृ०

२।२।१) । [ग] यत्राभिधीयमानेर्थे योन्योर्थः प्रसज्यते सोर्थापत्तिः।

यथा मेघेष्वसत्सु वृष्टिर्न भवतीति । किमत्र प्रसज्यते । सत्सु भवतीति

( वात्स्या० २।२।१ ) । [घ ] पुनरनुसंधीयमानशब्दासहकृतमनु-

पपत्तिज्ञानमिति गदाधरभट्टाचार्याः । [ङ ] उपपाद्यज्ञानेनोपपादक-

कल्पनमर्थापत्तिः । तत्र उपपाद्यज्ञानं करणम् । उपपादकज्ञानं फलम् । येन

विना यदनुपपन्नं तत्तत्रोपपाद्यम् । यस्याभावे यस्यानुपपत्तिस्तत्तत्रोपपाद-

कम् । यथा रात्रिभोजनेन विना दिवा अभुजानस्य पीनत्वमनुपपन्न मिति तादृ-

शपीनत्वमुपपाद्यम् । यथा वा रात्रिभोजनस्याभावे तादृशपीनत्वस्यानुपपत्ति-

रिति रात्रिभोजनमुपपादकम् । अत्र अर्थस्य आपत्तिर्नाम कल्पनेति षष्ठीस-

मासेन रात्रिभोजनकल्पनारूपायां प्रमितावर्थापत्तिशब्दो वर्तते । अर्थस्य

आपत्तिर्नाम कल्पना यस्मादिति बहुव्रीहिसमासेन कल्पनायाः करणभूते

पीनत्वादिज्ञानेपि वर्तते । एवं च फलकरणयोरुभयोरर्थापत्तिपद प्रयोगो

भवति । सा चार्थापत्तिर्द्विविधा - दृष्टार्थापत्तिः श्रुतार्थापत्तिश्चेति । तत्र

दृष्टार्थापत्तिर्यथा इदं रजतमिति पुरोवर्तिनि प्रतिपन्नस्य रजतस्य नेदं

रजतमिति तत्रैव निषिध्यमानत्वं सत्यत्वे सति अनुपपन्नमिति रजतस्य मि-

थ्यात्वं कल्पयति । श्रुतार्थापत्तिर्यथा यत्र श्रूयमाणवाक्यस्य स्वार्थानुपपत्ति-

मुखेनार्थान्तरकल्पनं सा । यथा तरति शोकमात्मविदित्यत्र श्रुतस्य शोक-

शब्दवाच्यबन्धजातस्य ज्ञाननिवर्त्यस्यानुपपरया बन्धस्य मिथ्यात्वं कल्प्यते ।

श्रुतार्थापत्तिश्च द्विविधा - अभिधानानुपपत्तिरभिहितानुपपत्तिश्च । तत्र

यत्र वाक्यैकदेशश्रवणे अन्वयाभिधानानुपपत्या अन्वयाभिधानोपयोगि पदा-

न्तरं कल्प्यते तत्राभिधान।नुपपत्तिः । यथा द्वारमित्यत्र पिधेहीत्यध्याहारः ।

अभिहितानुपपत्तिस्तु - यत्र वाक्यावगतोर्थोनुपपन्नत्वेन ज्ञातः सन्नर्थान्तरं

कल्पयति तत्र द्रष्टव्या । यथा स्वर्गकामो ज्योतिष्टोमेन यजेतेत्यत्र क्षणिक-

तथा अवगतज्योतिष्टोमस्य स्वर्गसाधनत्वानुपपत्त्या मध्यवर्त्यपूर्व कल्प्यते ।

अत्र नैयायिकाः–अर्थापत्तिर्न प्रमाणान्तरम् । किंतु व्यतिरेकव्याप्त्या

अनुमाने अन्तर्भावादिति । वेदान्तिनां मते तु व्यतिरेकव्याप्तिर्नाम यत्र
 
-