This page has not been fully proofread.

न्यायकोशः ।
 
१०७५
 
साध्यतावच्छेदक विशि-
प्रयुक्तस्तदुत्तरमनुमितावनाहार्यमानसज्ञाने वा पक्षतावच्छेदक विशिष्टपक्षे
साध्यतावच्छेदक विशिष्टसाध्य वैशिष्ट्यावगाहित्वस्य
ष्टसाध्यनिरूपितव्याप्ति विशिष्ट हेतुतावच्छेदक विशिष्ट हेतु मत्त्वावगाहित्वस्य च
द्वयोर्व्यतिरेकः ( अभावः ) तत्त्वम् इति । इदं च सिद्धान्तसिद्धं हेतु-
दोषलक्षणम् इति मन्यन्ते नैयायिकाः । तथा च लक्षणसमन्वयः । हृदो
वह्निमान् घूमात् इत्यादौ वयभावविशिष्टहदत्वावच्छिन्नविषयक निश्चयान-
न्तरम् हृदो बह्निमान् बहिव्याप्यधूमवांश्च इत्या कारकानुमितेः कदाचिद -
प्यनुदयेन घटाद्यनुमितय एव तादृशनिश्चयाव्यवहितोत्तरानुमितिसामान्या-
न्तर्गता भवन्ति । तासु च हृदत्वादिविशिष्टे यद्वह्नित्वाद्यवच्छिन्नवह्नि-
वैशिष्ट्यावगाहित्वम् वह्नित्वाद्यवच्छिन्नवह्निव्याप्ति विशिष्टधूमत्वाद्यवच्छिन्न-
वैशिष्ट्यावगाहित्वं च तदुभयाभाववत्त्वमक्षतमेव इति । तत्र तादृशो-
भयाभावे तादृशनिश्चयीय विरोधिविषयिता ( वयभाववद्धदादिविषयिता ) -
प्रयुक्तत्वमप्यक्षतम् । खनिष्ठप्रतिबन्धकतावच्छेदकधर्मस्य स्वानन्तरोत्पन्न-
ज्ञाननिष्ठप्रतिबध्यतावच्छेदकधर्माभावं प्रति प्रयोजकत्वम् इति नियमात्
( ग० २ हेत्वा० सामा० पृ० २० ) । केचित्तु यादृशपक्षकयादृश-
साध्य कयादृशहेतौ यावन्तो दोषाः संभवन्ति तावदन्यान्यत्वम् इति प्राहुः
( दीधि ० २ सामा० पृ० १८० ) ( म० प्र० २ पृ० २५)
(मु० २ ) । तत्तद्विषयितान्यतमविषयिता निरूपकतावच्छेदकधर्मवत्त्वम्
इत्यर्थ: ( ग० २ हेत्वा० सामा० पृ० ३१ ) । [ ख ] अनुमिति-
तत्करणान्यतरप्रतिबन्धकज्ञानविषयो धर्मः ( हेत्वाभासत्वोपाधिः )
1 (त० कौ० २) ( म०प्र० २ पृ० २५ ) । यथा हृदो वह्निमान्
घूमात् इत्यादौ वह्नयभाववद्धदादिरूपो दोषो बाधः हेत्वाभासः । अत्र
तद्वत्ताबुद्धौ तदभाववत्तानिश्चयः प्रतिबन्धकः इति नियमात् वह्नयभाव-
विशिष्टस्य हृदस्य निश्चयः वयभाववान् हृदः इत्याकारकः हदो वह्निमान्
इत्यनुमितौ प्रतिबन्धको भवति सः वयभावविशिष्टो हृदः दोषः
इति विज्ञेयम् । अन्यतरेत्युक्त्या व्यभिचारविरोधसाधनाप्रसिद्धि स्वरूपा
सिद्धिष्वनुमित्य प्रतिबन्धकत्वेपि तत्करणव्याप्तिपक्षधर्मताज्ञान प्रतिबन्धकत्व-
सत्त्वान्नाव्याप्तिः ( म० प्र० २ पृ० २५ ) ( ग० २ हेत्वा० सामा०