2023-12-26 08:12:19 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१०७४
 
न्यायकोशः ।
 

 

 
यद्वाह्येन्द्रिय प्रत्यक्षं तदनित्यम् इत्युदाहरणे न्यूनत्वेन विशिष्टोक्तौ । एवमुप-

नयविशेषणेपि ( गौ० वृ० ५/२/६ ) ( दि० १ ) । [घ ] परोक्तदूषणो-

दिवीर्षया पूर्वोक्तहेतुकोटौ विशेषणान्तरोपादानम् ( नील० पृ० ४५ ) ।

 
<
हेत्वप्रसिद्धिः>
साधनाप्रसिद्धिः ।

 
<
हेत्वसिद्धिः.
(व्याप्यवासिद्धिः) साधनाप्रसिद्धिः । अपरे तु व्यर्थविशेषण-

घटितं हेतुतावच्छेदकमेव हेत्वसिद्धिः इत्याहुः ।

 
<
हेत्वाभासः- >
१ ( हेतोर्दोषः ) [ क ] यस्य हि ज्ञानमनुमितिप्रतिबन्धकम्

सः ( चि० २ बाध० पृ० ११६) । अत्र हेतोः हेतौ वा आभासः

इति व्युत्पत्त्या हेत्वाभासपदस्य हेतुदोषः इत्यर्थः । हेत्वाभासवं

च अनुमितिकारणीभूताभावप्रतियोगि( अनुमिति प्रतिबन्धक ) यथार्थज्ञान-

विषयत्वम् । अनुमितिप्रतिबन्ध की भूतयथार्थज्ञानविषयत्वम् इति समु-

दितार्थ : ( त० दी ० २ ) । यद्विषयकत्वेन (लिङ्ग) ज्ञानस्य अनुमिति-

विरोधित्वं तत्त्वमिति वा । अत्रेदमधिकं विज्ञेयम् । गदाधर्यं द्वितीय-

हेत्वाभासलक्षणे हृदो वह्निमान् धूमात् इत्यादौ प्रमेयत्वविशिष्टबाधस्य

( प्रमेयत्व विशिष्टवह्नयभाववद्धदस्य ) दोषत्वानङ्गीकारादलक्ष्यतया तत्राति-

व्यातिवारणाय लक्षणघटक यत्पदार्थे विशिष्टान्तराघटितत्व विशेषणम् ।

तत्रैव वह्नयभाववज्जलादिमद्वृत्तिजलवद्धदादावतिव्याप्तिवारणाय यत्पदार्थे

विशिष्टद्वयाघटितत्व विशेषणं च दत्तम् । तत्रैव जातिध्वेन हृदत्वावगाहि-

जातिमान्वयभाववान् इत्य प्रतिबन्धकज्ञानमादायासंभववारणाय लक्षण-

घटकज्ञानपदार्थे अव्यापक विषयिताशून्यत्वविशेषणमपि दत्तं गदाधरभट्टा-
चार्यैः
 

: इति । इदं च बोध्यम् । अत्रानुमितिपदमजहत्स्वार्थलक्षणया

अनुमितितत्करणान्यतरपरम् । साध्यव्याप्यहेतुमान् पक्षः साध्यवान्

इत्याकारानुमितिपरं वा । तेन एकत्र हेतौ व्यभिचारादिग्रहेप्यन्यस्य

परामर्शादनुमित्यनुत्पादेन व्यभिचारात् व्याध्यादिज्ञानेनान्यथासिद्धत्वाच्च

व्यभिचारादिग्रहाभावस्यानुमित्यजनकत्वेपि न क्षतिः ( व्यभिचारादौ

नाव्याप्तिः ) ( दीधि ० २ हेत्वा० पृ० १७८ ) । अथ वा ज्ञायमानं

सद्यदनुमितिप्रतिबन्धकम् तत्त्वम् ( चि० २ सामा० पृ० ८३ )

(मु० २) । अत्र वदन्ति । यद्विषयकनिश्चयस्य विरोधिविषयिता-
Pays
 
-