न्यायकोशः /1127
This page has not been fully proofread.
।
न्यायकोशः
१०७३
हेतुसम: – ( जातिः ) हेतोर्वैकल्यसाध्यार्थी पूर्वापरसहोदयम् । त्रेधापि तस्य
हेतुत्वभङ्गो हेतुसमो भवेत् ॥ ( ता० २० २ श्लो० १९८) ।
एतत्कारिकाव्याख्यानं तु अहेतुसमशब्दव्याख्यानरीत्या दृश्यम् ।
हेत्वन्तरम् – ( निग्रहस्थानम् ) [ क ] अविशेषोक्ते हेतौ प्रतिषिद्धे विशेष-
-
मिच्छतो हेत्वन्तरम् (गौ० ५१२१६ ) । सूत्रार्थश्चेत्थम् । अत्र हेतौ
इत्यनेन हेत्ववयवांशो न विवक्षितः । अपि तु साधकांश: । स च
हेत्ववयवस्थ उदाहरणादिस्थो वा । अविशेषोक्ते इति पूर्वोक्त इत्यर्थः ।
विशेषमिच्छतः इति साभिप्रायम् । तेन परोक्तदूषणोद्दिधीर्षया तत्रैव
हेतौ विशेषणान्तरप्रक्षेपोन्यहेतुकरणं वा द्वयमपि हेत्वन्तरम् ( गौ ०
वृ० ५/२/६ ) इति । अत्र भाष्यम् । निदर्शनम् एकप्रकृतीदं व्यक्त मिति
प्रतिज्ञा । कस्माद्धेतोः । एकप्रकृतीनां विकाराणां परिमाणात् । मृत्पूर्व-
काणां शरावादीनां दृष्टं परिमाणम् । यावान्प्रकृतेर्व्यूहो भवति तावा-
विकार इति । दृष्टं च प्रतिविकारं परिमाणम् । अस्ति चेदं परिमाणं
प्रतिव्यक्तम् । तदेकप्रकृतीनां विकाराणां परिमाणात्पश्यामो व्यक्तमिद-
मेकप्रकृति इति । अस्य व्यभिचारेण प्रत्यवस्थानम् नानाप्रकृतीना मेक-
प्रकृतीनां च विकाराणां दृष्टं परिमाणमिति । एवं प्रत्यवस्थिते आह ।
एकप्रकृतिसमन्वये सति शरावादिविकाराणां परिमाणदर्शनात् सुखदुःख-
मोहसमन्वितं हीदं व्यक्तं परिमितं गृह्यते । तत्र प्रकृत्यन्तररूपसमन्वया-
भावे सत्येकप्रकृतित्वमिति । तदिदमविशेषोक्ते हेतौ प्रतिषिद्धे विशेष
ब्रुवतो हेत्वन्तरं भवति । सति च हेत्वन्तरभावे पूर्वस्य हेतोरसाधकत्वा-
निग्रहस्थानम् । हेत्वन्तरवचने सति यदि हेत्वर्थनिदर्शनो दृष्टान्त उपा
दीयते नेदं व्यक्तमेकप्रकृति भवति । प्रकृत्यन्तरोपादानात् । अथ नोपा-
दीयते । दृष्टान्ते हेत्वर्थस्यानिदर्शितस्य साधकभावानुपपत्तेरानर्थक्याद्धेतोर-
निवृत्तं निग्रहस्थानमिति ( वात्स्या० ५/२/६ ) । [ख ] परोक्तदूषणो-
दिधीर्षया तत्रैव हेतौ पूर्वोक्तहेतुतावच्छेदकातिरिक्त हेतुतावच्छेदक विशिष्ट-
वचनम् । [ग] प्राञ्चस्तु हेतौ विशेषणदान एव हेत्वन्तरम् इत्याहुः ।
यथा शब्दः अनित्यो बाह्येन्द्रिय प्रत्यक्षत्वात् इत्युक्ते सामान्येनैकान्तिक
त्वेन च प्रत्युक्ते सामान्यवत्त्वे सति इति विशेषणम् । एवं विशिष्टहेतुमुक्त्वा
।
१३५ न्या० को●