2023-12-26 08:09:41 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१०७१
 
.
 
उत्पादिका । अत्रेदं ज्ञेयम् हेतुत्वात्मिका संगतिरपि कारणत्वरूपा उपजी-

व्यत्वरूपा वा भवति नातिरिक्ता (भवा० ) ( जागदी ० ) इति । [ ख ]

कारकम् । यथा यज्ञमनु प्रावर्षत् इत्यादौ अनुशब्दस्यार्थः । ३ स्वतन्त्रं

प्रेरयन् ( ल० म० ) । ४ शाब्दिकास्तु फलसाधनयोग्यः पदार्थः ।

यथा धनेन कुशलम् विद्यया यशः इत्यादौ तृतीयार्थो हेतुः इत्याहुः

( व्या० वृत्ति० ) । अत्र हेतौ (पाणि ० २ ।३।२३ ) इत्यनेन सूत्रेणानु-

शिष्यते तृतीया । ५ फलम् । यथा अध्ययनेन वसति इत्यादौ तृतीयार्थः

फलम् अध्ययनम् । ६ आलंकारिकास्तु अर्थालंकारविशेष इत्याहुः ।

७ ( न्यायावयवः ) [ क ] पञ्चम्यन्तं तृतीयान्तं वा लिङ्गप्रतिपादकं

वचनम् । यथा पर्वते धूमेन वह्निसाधने धूमवत्त्वात् इति वाक्यम्

(तर्कभा० ) ( तर्कदी ० ) । अत्रेदं बोध्यम् । पञ्चावयवप्रयोगे कर्तव्ये

पर्वतो वह्निमानिति साध्यनिर्देशानन्तरं कुतः इत्याकाङ्क्षायां साधनता-

व्यञ्जकविभक्तिमल्लिङ्गवचन मेवोचितम् । अन्यथानाकाङ्क्षाभिधाने निग्रहा-

पत्तेः । लोके तथैवाकाङ्क्षानिवृत्तिरिति व्युत्पत्तेः । अतः प्रतिज्ञानन्तरं

हेतूपन्यासः ( चि० २ पृ० ७८) । लिङ्गज्ञानं हेतुप्रयोजनम् ( त ०

दी० २ पृ० २२ ) । हेतुत्वं च अनुमितिकारणीभूतलिङ्ग परामर्शप्रयोजक-

शाब्दज्ञानजनकसाध्या विषयकशाब्दधीजनक
हेतुविभक्तिमच्छब्दत्वम् । हेतु-

त्वप्रतिपादकविभक्तिमन्यायावयवत्वं वा । उदाहरण प्रयोजक जिज्ञासाजनक-

शाब्दज्ञानजनकन्यायावयवत्वं वा । अत्रायं भावः । क्वचिज्जिज्ञासानुत्पा-

देपि तद्योग्यतासत्त्वान्नाव्याप्तिः । अनुक्तोदाहरणस्थलेपि तादृशयोग्यता-

सत्त्वात् न्यायावयव इति पदम् ( दीधि ० २ अवय० पृ० १७४) ।

साध्या विषयकज्ञानजनक हेतुपञ्चम्यन्तानुमितिपरशब्दत्वं वा ।
 
अत्र
 

अयं न दण्डात् दण्डसंयोगाजन्यद्रव्यत्वात् इत्यादौ प्रतिज्ञानिगमन-

योर्वारणाय साध्याविषय इत्यादि । उपनयविशेषवारणाय हेतुपञ्चम्यन्त

इति पदम् ( दीधि ० २ अवय० पृ० १७४) । यद्वा प्रतिज्ञावाक्यधी-

जन्यकारणाकाङ्क्षा निवर्तकज्ञानजनक हेतु विभक्तिमद्वाक्यत्वम् पञ्चम्यन्तलाक्ष-

णिकपदवदनुमितिपरवाक्यत्वं वा । तदर्थश्च प्रकृतपक्षान्वितस्वार्थबोधक-

। पदोपस्थापितप्रकृतसाध्यान्वितस्वार्थबोधक पञ्चम्यन्तलाक्षणिकपदवदवयव -