न्यायकोशः /1124
This page has not been fully proofread.
१०७०
न्यायकोशः ।
हिमम्- -१ ( जलम् ) कारण विशेषेण घनीभूतं जलम् । यथा गङ्गा हिमवतो
जज्ञे सर्वलोकैकपावनी ( देवीपु० अ० २ ) इत्यादौ हिमशब्दस्यार्थः । एवम्
करकापि ज्ञेया । तत्प्रपञ्चस्तु आपः इति शब्दव्याख्याने ( पृ० १२४)
दृश्यः । २ शीतस्पर्शवत् (अमरः १।३।१९) । यथा हिमांशुश्चन्द्रः इत्यादौ
हिमशब्दस्यार्थः । ३ ऋतुविशेषः । ४ चणिका ( वाचस्पत्ये राजनि० ) ।
हीनवादी– पूर्वपादं परित्यज्य योन्यमालम्बते पुनः । पदसंक्रमणाज्ज्ञेयो
हीनवादी स वै नरः ॥ ( मिताक्षरा अ० २ श्लो० ९)।
हु - ( धातुः ) देवताद्रव्यसंबन्ध विशिष्टद्रव्यप्रतियोगिक संयोगरूपो व्यापारो
जुहोत्यर्थ: ( जै० सू० वृ० अ० ४ पा० २ सू० २८ ) ।
हुडुकार:- जिह्वातालुसंयोग।न्निष्पाद्यमानः पुण्यो वृषनादसदृशो नादः
( सर्व० सं० पृ० १६९ नकु० ) ।
( अव्य० हाडे ) १ संबोधनम् । २ आह्वानम् । ३ असूया (मेदि० ) ।
एवम् है हो इत्यादयः शब्दा व्याख्येयाः (वाच० ) ।
हेतु:
१ ज्ञापकः । यथा पर्वते धूमेन वह्निसाधने पर्वतो वह्निमान् घूमात्
इत्यादौ धूमः । अयमेव लिङ्गशब्देन अनुमानशब्देनापि च व्यवद्दियत
इति बोध्यम् । अत्र सूत्रम् हेतुरपदेशो लिङ्गं प्रमाणं करणमित्यनर्थान्तरम्
(वैशे०
० सू० ९/२४) । अत्र ज्ञापकज्ञान विषयत्वरूपं प्रयोजकत्व-
मेव हेतुत्वं ज्ञानज्ञाप्यत्वरूपं हेतुमत्त्वं वा तृतीयार्थ: ( ग० व्यु० का ० ३
पृ० ८७) । केचितु परामर्शीयप्रकारत्वं हेतुत्वम् इत्यङ्गीचक्रुः । स
चायं हेतुर्द्विविधः सद्धेतुः असद्धेतुश्चेति । तत्राद्यः पर्वतादिपक्षकबड्या-
दिसाध्यकस्थले धूमादिः । द्वितीयो हेत्वाभासः दुष्टहेतुः । अत्रेदं विज्ञेयम् ।
पक्षसत्त्व सपक्षसत्व विपक्षासत्व अबाधित विषयत्व असत्प्रतिपक्षितत्व
एतत्पञ्च रूपोपपन्न एव हेतुः सद्धेतुर्भवति । कश्चित् चतूरूपोपपन्नोपि हेतुः
सद्धेतुर्भवति । यथा इदं वाच्यं ज्ञेयत्वात् इत्यादौ ज्ञेयत्वं सद्धेतुः ।
कश्चित् त्रिरूपोपपन्नोपि हेतुः सद्धेतुर्भवति । यथा सर्व प्रमेयमभिधेयत्वात्
इत्यादौ अभिषेयत्वं सद्धेतुर्भवति ( ल० व० २ पृ० २७ ) इति ।
२ [ क ] कारणम् ( उत्पादकम् ) । यथा मृत् घटस्य हेतुः इत्यादौ मृत्
।
-