This page has not been fully proofread.

न्यायकोशः ।
 
हेतुत्वाभावः । तथा सति वाक्यभेदप्रसङ्गात् । न च अनर्थहेतुत्वक्रतू-
पकारकत्वयोः कश्चिदस्ति विरोधः । तस्मात् समाने विषये एव बाध्य -
बाधकभावः इति नियमात्प्रकृते भिन्नविषयत्वाद्वाध्यबाधकभावासंभवात्
निषिद्धत्वाच्च पशुहिंसायाः श्येनवदनर्थप्रापकत्वमेव इत्यलं विस्तरेण
( वाच० ) । २ द्रोहः इति परे मन्यन्ते ( गौ० वृ० ४ । १ । ३ ) । ३ चौर्य
वृत्तिनाश इत्यादिकर्म इति काव्यज्ञा आहुः ( अमरः ३।३।२२८ ) ।
हितम् – १ इष्टसाधनम् । यथा यजनं विप्राय हितम् इत्यादौ हितशब्द -
स्यार्थः । अत्र संबन्धश्चतुर्थ्यर्थः । विप्रसंबन्धि हितम् इति बोधः ।
एवम् सुखयोगेपि विप्राय सुखम् इत्यादौ शाब्दबोधो विज्ञेयः ( ल० म०
सुबर्थ० कार० ४ पृ० १०४-१०५) । २ गतम् । ३ मङ्गलं च
इति काव्यज्ञा आहुः ।
 
-
 
हिन्दुः -[ क ] जातिविशेषः । अत्र व्युत्पत्तिः हीनं दूषयति ( दुष् डु
पृषो० ) इति । अत्रोक्तम् पश्चिमाम्नायमन्त्रास्तु प्रोक्ताः पारस्यभाषया ।
अष्टोत्तरशताशीतिर्येषां संसाधनात्कलौ ॥ पञ्च खानाः सप्त मीरा नव
शाहा महाबलाः । हिन्दुधर्मप्रलोप्तारो जायन्ते चक्रवर्तिनः ॥ हीनं च
दूषयत्येव हिन्दुरित्युच्यते प्रिये । पूर्वाम्नाये नव शतं षडशीतिः प्रकी-
र्तिताः ॥ फिरिङ्गभाषया मन्त्रास्तेषां संसाधनात्कलौ । अघिपा मण्डलानां
च संग्रामेष्वपराजिताः ॥ इंरेजा नवषट् पञ्च लण्डूजाश्चापि भाविनः
( मेरुतन्त्रे० प्र० २३) इति । इदं मेरुतन्त्रमप्रमाणम् इति वाचस्पत्ये
तारानाथतर्कवाचस्पतिराह । [ ख ] अर्वाचीनास्तु भरतखण्डस्थजनानां
हिन्दु इति संज्ञा । यथा भरतखण्डस्य हिन्दुस्थानम् इति नाम इत्यादौ
कल्पितवाक्ये हिन्दुशब्दस्यार्थ इति प्रलपन्ति । अत्रार्थे तुष्यतु दुर्जन
इति न्यायेन व्युत्पत्तिः । सिन्धुशब्दः अपभ्रंशात् सकारस्थाने हकारो-
च्चारणात् हिन्दुः इति । तथा च वेदप्रतिपाद्यधर्मस्य सिन्धुनदी पर्यन्त-
त्वात् तद्धर्मवन्तोपि सिन्धुनामानः इति विज्ञेयम् । अत एव अर्वाचीनाः
सिन्धुपरिसरं भरतखण्डं हिन्दुस्थानम् इति व्यवहरन्ति । यथा दश दस
इति स्थाने दाहा इति सार सारु इति स्थाने हारु इति च ।
 
129