न्यायकोशः /1114
This page has been fully proofread once and needs a second look.
न्यायकोशः ।
विषयकेच्छा न तु स्वहितविषयकेच्छा विज्ञेया । अत्र व्याकरणम् अस्ति
( सु असू क्तिचू ) इति विभक्तिप्रतिरूपकमव्ययम् । स्वस्तिशब्दयोगे
क्षेमादिसंबन्धिनि चतुर्थी भवति । २ कल्याणम् ( कुशलम् ) । यथा
स्वस्त्यस्तु मह्यम् इत्यादौ स्वस्तिशब्दस्यार्थः ( ग० न्यु० का० ४ ) ।
यथा वा स्वस्त्यस्तु प्रजाभ्यः इत्यादौ स्वस्तिशब्दस्यार्थः । अत्राद्ये चतुर्थ्यर्थः
संबन्धः । तस्य च कल्याणेन्वयः ( ग० व्यु० का० ४ ) । शाब्दबोधस्तु
पूर्ववज्ज्ञेयः । स्वस्त्यस्तु प्रजाभ्य इत्यत्र प्रजानिष्ठं कुशलम् इत्यर्थः । स्वस्ति-
शब्दस्य कुशलवाचित्वात् । कुशलस्याशंसास्थले तु स्वस्त्यस्तु प्रजाभ्यः
। इतिवत् स्वस्त्यस्तु प्रजानाम् इत्यपि प्रमाणम् । आशा स्यैर्धनकुशलायुष्या -
योगे चतुर्थी वा इति भागुरिस्मृतेः इत्यपि वदन्ति ( श० प्र०
श्लो० ९४ टी० पृ० १२६ ) । ३ पुण्यम् । ४ स्वीकारसूचनम् ।
-
<स्वहस्तितत्वम्
स्वीकृतत्वम् ( राम० ) । यथा अनुभवस्य त्वया स्वहस्ति-
तत्वात् (दि०) इत्यादौ ग्रन्थे स्वहस्तितत्वशब्दस्यार्थः ।
<स्वागतम्
१ शोभनमागमनम् ( कुमा० टी० २११८ ) । यथा स्वागतं
स्वानधीकारान् ( कुमार० स० २ श्लो० १८) इत्यादौ स्वागतशब्द-
स्यार्थः । २ कुशलम् । ३ कुशलप्रश्नः ( हारा ० ) । यथा स्वागतं वो
महाभागाः वयं किं करवाम ते ( भाग० ९ ) इत्यादौ स्वागतशब्द-
स्यार्थः । ४ देवतापूजकास्तु षोडशोपचारमध्ये द्वितीयोपचारः । यथा
आसनं स्वागतं पाद्यम् इत्यादौ स्वागतशब्दस्यार्थः इत्याहुः ।
<स्वातन्त्र्यम्
स्वतन्त्रस्याप्रयोज्यत्वं करणादिप्रयोक्तृता । कर्तुः स्वातन्त्र्यमेतद्धि
न कर्माद्यनपेक्षता ( सर्व० सं० पृ० १७७ शै०)।
-
<स्वादः
१ प्रीतिः । २ प्रीणनम् । ३ रसिकास्तु रसानुभवः । यथा
रसास्वादेन तरला ये माद्यन्ति विपश्चितः ( प्रतापरु० ) इत्यादौ स्वाद -
शब्दस्यार्थः इत्याहुः । ४ लेहनम् इति काव्यज्ञा आहुः ।
<स्वाध्यायः
१ अध्ययनम् ( अमरः २।७।४७ ) । यथा स्वाध्यायो जप
इत्युक्तो वेदाध्ययनकर्मणि ( स्मृतिः ) इत्यादौ स्वाध्यायशब्दस्यार्थः