न्यायकोशः /1113
This page has not been fully proofread.
न्यायकोशः ।
१०५९
.. एतासां विभाजकं तु प्रकृतपक्षप्रकृतसाधनग्रहाविरोधिनो ज्ञानस्य विषय-
तया तदुभयवैशिष्ट्यग्रहविरोधितावच्छेदकं रूपम् ( दीधि ० २ पृ०
२१७ ) इति । अत्रेदं विज्ञेयम् स्वरूपासिद्धेर्हेतवः पञ्च तर्काः । ते च
आत्माश्रयः अन्योन्याश्रयः संशयः चक्रकाश्रयः अनवस्था चेति
( ता० २० श्लो० ९०)।
स्वर्गः
१ [क] सुखविशेषः (मु० गु० ) । यथा यागात्स्वर्गो भवति
इत्यादौ स्वर्गशब्दस्यार्थः । यथा वा यज्ञैरिष्वा स्वर्गति प्रार्थयन्ते इत्यादौ
स्वरूशब्दस्यार्थः । इदं च इच्छामात्रसाधनसाध्यं सुखम् इति वदन्ति ।
अत्राम्नायते यन्त्र दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं
च तत्सुखं स्वःपदास्पदम् ॥ (श्रुतिः ) इति । अत्र दुःखासंभिन्नत्वं च
स्वावच्छेदकशरीरानवच्छिन्नत्वम् । तेन दुःखसमानकालीने सुखे नाति-
व्याप्तिः । [ख] अधर्मानारब्धदेहावच्छेद्यसुखम् ( प० च० ) ।
२ पौराणिकास्तु देवानामावासस्थानं लोकविशेषः । तदुक्तं महाभारते
उपरिष्टाच्च स्वर्लोको योयं स्वरिति संज्ञितः । ऊर्ध्वगः सत्पथः शश्वदेव-
यानचरो मुने ॥ नातप्ततपसः पुंसो नामहायज्ञयांजिनः । नानृता
नास्तिकाश्चैव तत्र गच्छन्ति मुगल ॥ धर्मात्मानो जितात्मानः शान्ता
दान्ता विमत्सराः । दानधर्मरता लोकाः शूराचाहवलक्षणाः ॥ तत्र
गच्छन्ति इत्यादि । तत्र गुणप्रशंसा न शोको न जरा तत्र नायास-
परिदेवने । ईदृशः स मुने लोकः स्वकर्मफलहेतुकः ॥ न वर्तयन्त्या-
हुतिभिस्तेनाप्यमृतभोजनाः । तथा दिव्यशरीरास्ते न च विग्रहमूर्तयः ॥
इत्यादिः । तत्र दोषास्तु कृतस्य कर्मणस्तत्र भुज्यते यत्फलं दिवि । न
चान्यत्क्रियते कर्म मूलच्छेदेन भुज्यते ॥ सोत्र दोषो मम मतस्तस्यान्ते
पतनं च यत् ( भार० व० अ० २६० ) इत्यादयः । अयं च लोकः
भूक: भुवर्लोकः स्वर्लोक: महर्लोकः जनलोकः तपोलोकः सत्य-
लोकश्च इत्येतेषु भूरादिषु सप्तसु लोकेषूर्ध्वस्थस्तृतीय इत्याहुः ।
स्वस्ति – १ आशीः । यथा स्वस्ति भवते इत्यादौ स्वस्त्यर्थः । अत्र चतु-
र्ध्यर्थः संबन्धः । तस्य स्वस्त्यर्थहितेन्वयः । एवं च भवदीय हितविषयिणी
: