This page has not been fully proofread.

१०५८
 
न्यायकोशः ।
 
इत्युच्यते ( सि० च० २ पृ० २८ ) । स्वरूपासिद्धश्च शुद्धासिद्धभागा-
सिद्धविशेषणासिद्धविशेष्यासिद्धासमर्थविशेषणासमर्थविशेष्यभेदेन
 
बहु-
विध: ( त० भा० पृ० ४५ ) ( त० सं० २ ) ( सि० च० २ ) ।
स्वरूपासिद्धश्चायमसिद्धप्रभेदः । लक्षणं तु वक्ष्यमाणा स्वरूपासिद्धिरेव ।
 
सा च हेतुनिष्ठपक्षावृत्तित्वादिः स्वरूपासिद्धिशब्दे दृश्या ( सि० च ० ) ।
स्वरूपासिद्धश्चायं
 
कचित् संदेहसिषाधयिषयोरभावात् सिद्धसाधने
अन्तर्भवति (वै० उ० ३।१।१५ पृ० १५६) । [ख] यो
हेतुः पक्षे न वर्तते स स्वरूपासिद्धः । यथा तप्तायः पिण्डो वह्निमान्
धूमात् इत्यादौ धूमो हेतुः स्वरूपासिद्धः । यथा वा शशादिरवो
विषाणित्वात् इत्यादौ विषाणित्वं हेतुः स्वरूपासिद्धः ( प्र० प्र० ) । अत्र
सूत्रम् यस्माद्विषाणी तस्मादश्वः (३० ३।१।१६ ) इति । [ग]
पक्षनिष्ठाभावप्रतियोगी हेतुः । यथा हृदो द्रव्यं धूमात् इत्यादौ धूमः
स्वरूपासिद्धः (त० कौ० २ ) । अत्र पक्षे हृदे वर्तमानः धूमस्याभावः
तस्य प्रतियोगी धूमो भवति इति हृदो द्रव्यं धूमात् इत्यादौ धूमो हेतुः
स्वरूपासिद्धः । स्वरूपासिद्धत्वज्ञानं परामर्शप्रतिबन्धकम् । हृदे धूमो
नास्ति इति ज्ञाने सति द्रव्यत्वव्याप्यधूमवान् हदः इति परामर्शासंभवात् ।
एतस्य परामर्शस्य हृदे धूमसंबन्धावगाहित्वात् (त० कौ० २) इति ।
स्वरूपासिद्धिः – ( हेतुदोषः ) पक्षे व्याप्यत्वाभिमतस्याभावः। यथा घटः
पृथिवी पटत्वात् इत्यत्र घटरूपपक्षे हेत्वभावः ( न्या० म० २ ) ।
यथा वा हृदो द्रव्यं धूमात् इत्यादौ हृदनिष्ठो धूमाभावः स्वरूपासिद्धिः
( मु० २ ) ( गौ० वृ० ११२१८ ) (वै० वि० ३११११५ )
( न्या० बो० ) ( न्या० म० २ पृ० २१ ) । स्वरूपासिद्धिश्चेयमसिद्धि-
प्रभेदः । भागासिद्धिरत्रैवान्तर्भवति ( त ० भा० ) । अत्र च हेत्वभावव-
त्पक्षः हेतुमदन्यः पक्ष: पक्षावृत्तिर्हेतुः पक्षे हेत्वभावः पक्षनिष्ठं हेत्वभाव-
घत्त्वम् पक्षनिष्ठं हेतुमदन्यत्वम् हेतुनिष्ठं पक्षावृत्तित्वम् हेतुनिष्ठं पक्ष-
वृत्तित्ववदन्यत्वम् हेतुमन्निष्ठं पक्षान्यत्वादिकम् हेतुनिष्ठं पक्षनिष्ठाभाव-
प्रतियोगित्वम् विशिष्टहेतौ पक्षादेर्विशेष्याभाववत्त्वादिकम् पक्षादेर्हेत्व-
समानाधिकरणधर्मवत्त्वम् इत्यादयः स्वरूपासिद्धिव्यक्तयो बाधवदूह्याः ।