This page has not been fully proofread.

१०२६
 
न्यायकोशः ।
 
सु अतिशयेर्थे द्विवचनविभज्योपपदे तरवीयसुनौ ( पाणि० ५/३/५७ )
इत्यादिना तरप् आम् इति ।
 
सुप् – ( विभक्तिः ) [क] प्रकृत्यर्थधर्मिक स्वार्थसंख्यान्वयबोधिका विभक्तयः
सुप उच्यन्ते । यथा घटोस्ति इत्यादौ घटपदोत्तरं सुविभक्तिः । तिङस्तु
 

 
स्वार्थभावनाद्यन्वयिन्येव स्वार्थसंख्यामवबोधयन्ति न तु स्वप्रकृत्यर्थे
इति तासां व्युदासः ( श० प्र० श्लो० ६३ टी० पृ० ७३ ) । ताः
सुपः प्रथमाद्वितीयादिभेदेन सप्तविधाः । सुप् प्रकारान्तरेण द्विधा
कारका कारकार्थान्या चेति । कारकार्था कारकविभक्तिः । तत्र वृत्या
कारकस्य बोधिका कारकार्था । तदन्यस्य बोधिका कारकार्थान्या (श०
● म० श्लो० ६७ टी० पृ० ७७ ) । ख ] वैयाकरणास्तु व्याकरण-
परिभाषिताः सुप्रभृतिसुपूपर्यन्ताः सुप्प्रत्याहारान्तर्गताः एकविंशति-
संख्याकाः प्रत्ययविशेषाः । यथा रामः इत्यादौ रामपदोत्तरं सुविभक्तिः
इत्याहुः । ते च प्रत्ययाः सु आ जसू अम् औट् शस् टा भ्यां भिस् डे
भ्याम् भ्यस् ङसि भ्याम् भ्यसू डस् ओस् आम् ङि ओस् सुप
(पाणि० ४।१।२) इति । शिष्टं तु विभक्तिशब्दव्याख्याने दृश्यम् ।
सुप्तः - निद्रितः । यथा निर्विकल्पकासत्त्वे सुप्तोत्थितस्य अयं घटः
विशिष्टज्ञानं न स्यात् ( त० कौ० १ पृ० ८) इत्यादौ ग्रन्थे सुप्त
शब्दार्थः । अत्रोच्यते प्रसङ्गतो व्यवहारोपयोगि। क्षुधितस्तृषितः
विद्यार्थी कृषिकारकः । भाण्डारी च प्रवासी च सप्त सुप्तान प्रबोध
येत् ॥ इति । अन्यच मक्षिका भ्रमरः सर्पों राजा वै बालकस्तथा ।
परश्चापि च मूर्खश्च सप्त सुप्तान्न बोधयेत् ॥ ( नीतिसारे ) इति ।
 
सुभद्रा – ( कल्याणीशब्दे दृश्यम् )
 

 
सुरा — पैट्याख्यो मद्यविशेषः । यथा न सुरां पिबेत् ( मनु० अ० ११
लो० ९३ ) इत्यादौ सुराशब्दस्यार्थः । अत्रेदं बोध्यम् । यद्यपि सुरा
शब्दवाच्याः गौडी माध्वी पैष्टी इति तिस्रः तथापि सुराशब्दो पैष्टी-
मात्रे मुख्यः । गौडीमाध्व्योर्गौणः । तथोक्तं भविष्यपुराणे सुरा च
 
इति