न्यायकोशः /1079
This page has not been fully proofread.
न्यायकोशः ।
९०२५
व्याख्यानावसरे संपादितमेव इति । ३ बुद्धिसत्त्वस्य परिणाम विशेषः इति
सांख्या आहुः । ४ निद्रा इति केचिदाहुः । ५ स्वर्गः इति मीमांसका
आहुः । ६ सुखकरम् ७ सुखी च इति काव्यज्ञा आहुः । ८. वृद्धिना-
मौषधि विशेषः इति भिषज आहुः । ९ वरुणपुरी इति पौराणिका आहुः ।
न्यायमते सुखं चतुर्विधम् वैषयिकम् आभिमानिकम् मानोरथिकम् आ-
भ्यासिकं चेति । तत्र आद्यं विषयसाक्षात्कारजन्यम् । द्वितीयं राज्याधिप-
व्यपाण्डित्यगर्वादिजन्यम् । तृतीयं विषयध्यानजन्यम् । तुरीयं च सूर्यनम-
स्कारायासादिजन्यं लाघवरूपम् ( सि० च० ) इति । मीमांसकमते च
सुखं द्विविधम् सांसारिकम् पारमार्थिकं च । तत्राद्यम् प्रयत्नोत्पाद्यं साधना-
धीनं सुखम् । द्वितीयं तु स्वर्गः इति । वेदान्तिमते च सुखं द्विविधम् नि -
त्यम् जन्यं च । तत्र विषयसंपर्काद्वैषयिकं सुखं जन्यम् । ब्रह्मस्वरूपं सुखं
तु नित्यम् इति । तदेतद्वेदान्तिमायावादिमतम् मुक्तिवादे मणिकता निरा-
कृतम् । तत्र न च नित्यसुखाभिव्यक्तिर्मुक्तिः इत्युपक्रम्योक्तम् स्वप्रकाश-
सुखात्मकब्रह्मणो नित्यत्वे मुक्तसंसारिणोरविशेषप्रसङ्गः । पुरुषप्रयत्नं
विना तस्य सत्त्वात् । अपुरुषार्थत्वाच्च । अविद्यानिवृत्तिः प्रयत्नसाध्या
इति चेत् । अविद्या यदि मिथ्याज्ञानम् अर्थान्तरं वा उभयथापि सुख-
दुःखाभावसाघनेतरत्वेन तन्निवृत्तेरपुरुषार्थत्वम् ( चि० २ परिशिष्ट ०
मुक्ति० पृ० ४६-४७ ) इति । दुःखध्वंसस्यैव परमप्रयोजनत्वम्
स एव मोक्षः (चि० २ परिशि० मुक्ति० पृ० ४० ) इति च । पात-
अलास्तु वैषयिकसुखानां परिणामदुःखादिभिः दुःखत्वमेव वैराग्यार्थ
मन्यन्ते । अत्र सूत्रम् परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःख-
मेव सर्व विवेकिन: ( पात० पा० २ सू० १५ ) इति ।
सुगतः -- ९ बुद्धः । २ सुष्ठु गतियुक्तः ( अमरः ३ । ४ । २ ) ।
• सुतराम्- ( अव्ययम् ) अवधारितार्थस्यातिशयौचित्यम् । यथा धेन्वा तद-
ध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरां दयालुः (रघु० स० २
श्लो०
१० ५२ ) इत्यादौ सुतराम् इत्यस्यार्थः । अत्र कातराक्ष्या धेन्वा
दृश्यमानत्वेन दयालुत्वस्यातिशयौचित्यम् इति विज्ञेयम् । अत्र व्याकरणम्
१२९ न्या० को०