2023-12-26 07:14:58 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१०२२
 
न्यायकोशः ।
 
मित्रादीनां॑ सिद्धिः । संकल्प सिद्धिः कामरूपी यंत्र तत्र कामगः इत्येव-

मादिः । समाधिजाः सिद्धयस्तु परमाण्वादिमूलप्रकृत्यन्तवस्तूनां साक्षा

कार: ऋतंभराख्याध्यात्मप्रसादच इत्यादयः (पात० ११४७-४८)।

अष्टौ सिद्धयस्तु अणिमा महिमा लघिमा गरिमा प्राप्तिः प्राकाम्यम्

वशित्वम् ईशित्वं चेति । तत्र भूतजयेनाणिमाद्यष्टसिद्धयः प्राप्नुवन्ति । तत्र

अणिमा परमाणुवत्सूक्ष्मस्वरूपेणावस्थानम् । महिमा विभुत्वप्राप्तिः ।

लघिमा कार्पासवल्लघुत्वभवनम् । गरिमा मेरु पर्वतवद्गुरुत्वभवनम् ।

प्राप्तिः अङ्गुल्या चन्द्रमण्डलस्पर्शनम् । प्राकाम्यं सत्यसंकल्पत्वम् ।

वशित्वं सर्वप्राणिनियन्तृत्वम् । ईशित्वं च सर्वभूतोत्पादनशक्तिमत्वम्

(पात० ३।४५) इति । ५ तान्त्रिकास्तु मन्त्रसिद्धिरित्याहुः । इयं

सिद्धिरुत्तममध्यमाधमभेदेन त्रिविधा । तत्रोत्तमा मनोरथानामक्लेशपरकाय-

प्रवेशादिः । मध्यमा ख्यातिवाहनभूषादिलाभ: । अधमा तु धनित्व
 

पुत्रदारादिलाभः (तन्त्रसा० ) इति ।
 

 
<
सिनीवाली - >
दृष्टचन्द्राममावास्यां सिनीवालीं प्रचक्षते ( पु० चि०
 

पृ० ३१८ ) ।
 

 
<
सिषाधयिषा->
[ ] तत्साध्य विशिष्टतत्पक्षविषय कत्व प्रकारिकानुमिति वि

षयिणीच्छा ( दीधि० २ पक्ष० पृ० १२४ ) । [ख ] अनुमितित्व-

प्रकारकेच्छा ( ग० सार्व० पक्ष० ) । यथा पर्वते वह्नयनुमितिर्मे जाय-

ताम् इत्याकारिकेच्छा । अत्रेदं चिन्त्यम् । सिद्धौ सत्यामपि सिषाध

यिषासत्त्वेनुमितिदर्शनात्सिषाधयिषाया अनुमितावुत्तेजकत्वमुक्तम् ।

त्तेजकत्वम् तत्साध्यविशिष्टतत्पक्षविषयकत्वानुमितित्व प्रत्यक्षातिरिक्तत्वैत-
तच्चो
 

षयिताकत्वरूपेणानुगतेन वाच्यम् ( ग० पक्ष० ) इति । परे तु पर्वते

तिरिक्तं ज्ञानं जायताम् इत्याद्यननुगतेच्छानां तु तत्तव्यक्तित्वेनैवोत्तेजक

वह्निमनुमिनुयाम् इत्याद्यनुगतेच्छानामनुगतरूपेणैवोत्तेजकत्वम् । प्रत्यक्षा-

त्क्षणानन्तरक्षणानुमितित्वैतन्निष्ठावच्छेदकताभिन्नावच्छेदकत्वा निरूपक वि
 

वाच्यम् इत्याहुः (दि० २ पक्षता० पृ० १४९ ) ।
 

 
<
सीमा - >
१ मर्यादा ( ग० व्यु० कार० २ ख० २ पृ० ७५//
 
)।