This page has not been fully proofread.

१०२२
 
न्यायकोशः ।
 
मित्रादीनां॑ सिद्धिः । संकल्प सिद्धिः कामरूपी यंत्र तत्र कामगः इत्येव-
मादिः । समाधिजाः सिद्धयस्तु परमाण्वादिमूलप्रकृत्यन्तवस्तूनां साक्षा
कार: ऋतंभराख्याध्यात्मप्रसादच इत्यादयः (पात० ११४७-४८)।
अष्टौ सिद्धयस्तु अणिमा महिमा लघिमा गरिमा प्राप्तिः प्राकाम्यम्
वशित्वम् ईशित्वं चेति । तत्र भूतजयेनाणिमाद्यष्टसिद्धयः प्राप्नुवन्ति । तत्र
• अणिमा परमाणुवत्सूक्ष्मस्वरूपेणावस्थानम् । महिमा विभुत्वप्राप्तिः ।
लघिमा कार्पासवल्लघुत्वभवनम् । गरिमा मेरु पर्वतवद्गुरुत्वभवनम् ।
प्राप्तिः अङ्गुल्या चन्द्रमण्डलस्पर्शनम् । प्राकाम्यं सत्यसंकल्पत्वम् ।
वशित्वं सर्वप्राणिनियन्तृत्वम् । ईशित्वं च सर्वभूतोत्पादनशक्तिमत्वम्
(पात० ३।४५) इति । ५ तान्त्रिकास्तु मन्त्रसिद्धिरित्याहुः । इयं
सिद्धिरुत्तममध्यमाधमभेदेन त्रिविधा । तत्रोत्तमा मनोरथानामक्लेशपरकाय-
प्रवेशादिः । मध्यमा ख्यातिवाहनभूषादिलाभ: । अधमा तु धनित्व
 
पुत्रदारादिलाभः (तन्त्रसा० ) इति ।
 
सिनीवाली - दृष्टचन्द्राममावास्यां सिनीवालीं प्रचक्षते ( पु० चि०
 
पृ० ३१८ ) ।
 
सिषाधयिषा-[ ] तत्साध्य विशिष्टतत्पक्षविषय कत्व प्रकारिकानुमिति वि
षयिणीच्छा ( दीधि० २ पक्ष० पृ० १२४ ) । [ख ] अनुमितित्व-
प्रकारकेच्छा ( ग० सार्व० पक्ष० ) । यथा पर्वते वह्नयनुमितिर्मे जाय-
ताम् इत्याकारिकेच्छा । अत्रेदं चिन्त्यम् । सिद्धौ सत्यामपि सिषाध
यिषासत्त्वेनुमितिदर्शनात्सिषाधयिषाया अनुमितावुत्तेजकत्वमुक्तम् ।
त्तेजकत्वम् तत्साध्यविशिष्टतत्पक्षविषयकत्वानुमितित्व प्रत्यक्षातिरिक्तत्वैत-
तच्चो
 
•षयिताकत्वरूपेणानुगतेन वाच्यम् ( ग० पक्ष० ) इति । परे तु पर्वते
तिरिक्तं ज्ञानं जायताम् इत्याद्यननुगतेच्छानां तु तत्तव्यक्तित्वेनैवोत्तेजक
वह्निमनुमिनुयाम् इत्याद्यनुगतेच्छानामनुगतरूपेणैवोत्तेजकत्वम् । प्रत्यक्षा-
त्क्षणानन्तरक्षणानुमितित्वैतन्निष्ठावच्छेदकताभिन्नावच्छेदकत्वा निरूपक वि
 
वाच्यम् इत्याहुः (दि० २ पक्षता० पृ० १४९ ) ।
 
सीमा - १ मर्यादा ( ग० व्यु० कार० २ ख० २ पृ० ७५//