This page has not been fully proofread.

2
 

 
न्यायकोशः ।
 
१०२१
 
C
 
सिद्धिः – १ निश्चयः । स च साध्यवत्तानिश्चयः (दीधि ० २) (ग०
सत्प्र० ) । पक्षतावच्छेदक विशिष्टे साध्यतावच्छेदक विशिष्टसाध्य वैशिष्या-
बगाहिनिश्चयः इत्यर्थः ( नील० २ ) । यथा पर्वते धूमेन वह्निसाधने
पर्वतो वह्निमान् इति निश्चयः । इयं सिद्धिर्द्विविधा पक्षतावच्छेदक-
सामानाधिकरण्यमात्रावगाहिनी पक्षतावच्छेदकव्यापकत्वावगाहिनी चेति ।
इयं सिद्धिरसत्यामनुमित्सायां कामिनीजिज्ञासा कार्यमात्रस्येव अनुमितेः
पृथक् प्रतिबन्धिका भवति । अनुमित्सा तु तत्रोत्तेजिका भवति इति
ज्ञेयम् ( ग० पक्ष० ) । अनुमित्सा सिषाधयिषा । अत्रानुभवमनुरुष्य
प्रतिबध्यप्रतिबन्धकभावः कल्प्यते । पक्षतावच्छेदकावच्छेदेनानुमितिं
प्रति पक्षतावच्छेदकावच्छेदेनैव सिद्धिर्विरोधिनी न तु पक्षतावच्छेदक-
सामानाधिकरण्येनापि सिद्धिर्विरोधिनी । पक्षतावच्छेदकसामानाधिकरण्य-
मात्रेणानुमितिं प्रति तूभयविधापि सिद्धिर्विरोधिनी (मु० २ पक्ष० )
( दीधि० २) इति । २ व्याप्तस्य पक्षधर्मताप्रतीतिः सिद्धिरुच्यते । यथा
असिद्धो हेत्वाभासः इत्यादौ सिद्धिशब्दस्यार्थः ( ता० र० श्लो० ८४ ) ।
३ सांख्यास्तु आध्यात्मिकादिदुःखत्रयविघातास्त्रयो मुख्यसिद्धय इत्याहुः ।
अत्र सूत्रम् ऊहादिभिः सिद्धिः ( सांख्य० सू० अ० ३ सू० ४४ )
इति । तदर्थश्च ऊहादिभेदैः सिद्धिरष्टधा भवति इति । इदं सूत्रं
कारिकयापि व्याख्यातम् । यथा ऊहः शब्दोध्ययनं दुःखविधातास्त्रयः
सुहृत्प्राप्तिः । दानं च सिद्धयोष्टौ सिद्धेः पूर्वोङ्कशस्त्रिविधः ॥ (सांख्य ०
मा० ३।४४ ) इति । ४ योगशास्त्रज्ञास्तु ऐश्वर्यम् । अत्र सूत्राणि
ते
समाधावुपसर्गा व्युत्थाने सिद्धयः ( पात० पा० ३ सू० ३७ )
जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ( पात० पा० ४
इत्यादीनि । तदर्थश्च ते प्रतिभादयः सिद्धयः
माना उपसर्गाः विघ्नाः । तत्त्वदर्शनप्रत्यनीकत्वात् । व्युत्थितचित्तस्यो-
त्पद्यमानाः सिद्धयः प्रियाः (भाष्य ० ) इति । तत्र जन्मना सिद्धिर्यथा
यक्षगन्धर्बादीनामाकाशगमनादिसिद्धिः । देवहूतीपुत्रकपिलादीनां तु
स्वाभाविकी सिद्धिः । ओषधिभिः असुरभवने माण्डव्यादिमुनीनां
रसायनेन इत्येवमादिः । मन्त्रैरणिमादिलाभः केषांचित् । तपसा विश्वा
 
सू० १ )
समाहित चित्तस्योत्पद्य-