2023-12-26 07:04:57 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

२'
 
न्यायकोशः ।
 
१०१९
 
सिद्धसाधनम् -
<सिद्धसाधनम्>
( दोषः ) १ प्रमाणान्तरेणावगतार्थसाधनम् अनुमानम् ।

यथा पर्वते वहिनिश्चयानन्तरमपि पुनस्तत्साधनाय विहितं पर्वतो वह्निमान्

घूमात् इत्यनुमानम् । अत्र न हि करिणि दृष्टे चीत्कारेण तमनुमिमतेनु-

मातारः इत्यनुभवो द्रष्टव्यः ( तत्त्वचिन्तामणौ वाचस्पतिमिश्रः ) । अत्र

सिषाधयिषाया असत्त्वे इति ग्रन्थ आदौ पूरणीयः । सिषाधयिषायाः

सत्त्वे तु अनुमितेरुदयेन तदा सिद्धसाधनस्य न दोषत्वम् (पक्षता-

विघटकत्वम् ) इत्यवधेयम् । अत्र प्रत्यक्षकलितमप्यर्थमनुमानेन बुभुत्सन्ते

तर्करसिकाः इत्यनुभवो द्रष्टव्यः (चिन्तामणौ बाचस्पतिमिश्रः) । २ सा-

ध्यपक्षतावच्छेदकयोरैक्ये सिद्धसाधनम् । यथा पर्वतः पर्वतत्ववान् घूमात्

इत्यादौ सिद्धसाधनम् । अत्र पूर्व पक्षतावच्छेदकपर्वतत्व विशिष्टपक्षा-

नेनैव साध्यसिद्ध्युपपत्तौ पुनस्तसाधनं सिद्धसाधनम् इति भावः ।

केचित्तु पक्षतावच्छेदकभेदे न सिद्धसाधनं दोषः । यथा नित्ये वाङ्मनसे

इत्यत्र । यथा वा घटत्वावच्छेदेनेतरभेदस्य सिद्धत्वेपि द्रव्यत्वावच्छेदेने-

तरभेदसाधने न सिद्धसाधनम् इत्याहुः । सिद्धसाधनं च हेत्वाभासो

निग्रहस्थानं वेति मतभेदः । तत्र सिद्धसाधनं पक्षताविघटकत्वेनाश्रया-

सिद्धेन्तर्भवति इति प्राञ्चः जरन्नैयायिका: आहुः । तन्मते पक्षतायाः

साध्यसंशयरूपतया तद्विघटकत्वं साध्यनिश्चयस्याक्षतम् । तथा च

संदिग्धसाध्यवतः पक्षस्याभावादाश्रयासिद्धिः इति भावः (नील० २)

( प्र० च० पृ० ३१ ) । नव्यास्तु सिषाधयिषितपक्षविघटनद्वारा सिद्ध-

साधनं दूषणम् न स्वतः । सत्यपि सिद्धसाधने (साध्यनिश्चये) सिषाध-

यिषयानुमित्युदयान्न सिद्धसाधनं हेत्वाभासान्तरम् । किंतु निग्रहस्थाना

न्तरम् इत्याहुः ( चि० २) ( न्या० म० २ पृ० २१) ( म० प्र० २

पृ० २८) ( त० दी० २ पृ० २७) (सि० च० ) । नव्यानामय-

माशयः । सिषाधयिषाविरहविशिष्टसिद्व्यभावस्यैव सिद्धान्तसिद्धपक्षतात्व-

स्वीकारात् सत्यामपि सिद्धौ ( साध्यनिश्चये ) सिषाधयिषादशायां चानु-

मित्युदयेन सिद्धेरनुमितिप्रतिबन्धकत्वाभावान्न व्यापकत्वघटितहेत्वाभास-
•ल

क्षणाक्रान्तत्वं सिद्धिविषयस्य साध्यवत्पक्षस्य इति न सिद्धसाधनस्य

हेत्वाभासत्वं (दुष्टहेतुत्वम्) संभवति (नील० २ पृ० २७) इति ।