2023-12-26 07:02:55 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.


 
न्यायकोशः ।
 
१०१७
 
सं० ३१५/७ ) इत्यादौ पर्णताया अनारभ्याधीताया दर्शपूर्णमासरूप-

प्रकृतियागेन्वय इत्याहुः । तथा हि सामान्यविधेरस्पष्टत्वात्तस्य विशेषे-

णोपसंहारो भवति । तथा चोक्तम् सामान्यविधिरस्पष्टः संह्रियेत विशेषतः

( लौ० भा० टी० पृ० २३ ) इति ।
 

 
<
सामासिकम्>
( योगरूढं नाम ) समासात्मकं नाम । यथा कृष्णसर्पादि।

कृदन्तस्य पङ्कज इत्यादियोगरूढस्य सामासिक एवान्तर्भाव: ( श० प्र०

श्लो० २९ पृ० ३७) ।
 

 
<
सायम्>
संध्याशब्दे दृश्यम् ।
 
-
 
-
 

 
<
सार्थक:>
१ (शब्दः ) यादृशः शब्दः शब्दान्तरं सहकृत्यैव स्वस्य स्व-

घटकस्य वा वृत्युपस्थाव्ययादृशार्थावगाहिबोधं प्रत्यनुकूलः स तथाविधेर्थे

सार्थकः । यथा पटपाचकाद्याः प्रकृतयः सुप्तिङाद्याः प्रत्ययाः चादयो

निपाताश्च स्वोपस्थाप्यार्थस्य बोधं नियमतः शब्दान्तरं सहकृत्य जनयन्ति ।

सार्थकः शब्दस्त्रिविधः प्रकृतिः प्रत्ययः निपातश्चेति । शशविषाणादिकः

शब्दोपि शशीयत्वादिना विषाणादेरन्वयबोधमादधानस्तादृशविषयताक-

बोधने सार्थक एव । परं योग्यः । वाक्यानि पुनः शब्दान्तरमसह-

कृत्यापि खोपस्थाप्यार्थस्य बोधं जनयन्ति इति न तत्रातिव्याप्तिः ( श०

प्र० श्लो० ६ पृ० ७ ) । २ समूहः सार्थः इति काव्यज्ञा आहुः । 7

 
<
सास्मितः>
(समाधिः) यदा रजस्तमोलेशानभिभूतं शुद्धं सत्त्व मालम्बनीकृत्य

या प्रवर्तते भावना तदा तस्यां सत्त्वस्य न्यग्भावाञ्चितिशक्तेरुद्रेकाच्च

सत्त्वमात्रावशेषत्वेन सास्मितः समाधिः (सर्व० सं० पृ० ३५७ पात ० ) ।

 
<
साहचर्यम् - >
१ साहित्यम् । २ सामानाधिकरण्यम् (त० दी० ) ( न्या०

बो० ) । ३ समभिव्याहारः ।
 
-
 

 
<
साहसम्>
सहसा क्रियते कर्म यत्किंचिदर्पितैः । तत्साहसमिति प्रोक्तं

सहो बलमिहोच्यते ॥ ( मिताक्षरा अ० २ श्लो० २३०) । यथा विष-
"

शस्त्रादिनिमित्तं प्राणव्यापादनादि ( मिताक्षरा अ० २ श्लो० १२) ।

तदुक्तम् मनुष्यमारणं चौर्य परदाराभिमर्शनम् । पारुष्यमुभयं चेति

साहसं स्याच्चतुर्विधम् ॥ ( मिताक्षरा अ० २ श्लो० ७२ ) ।
 

१२८ न्या० को०
 
-