2023-12-26 06:48:51 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१००२
 
न्यायकोशः ।
 
इति प्रतीत्या गम्यत इति विज्ञेयम् । ख अनुमितिविधेयत्वम् । यथा

पर्वतो वह्निमान् धूमात् इत्यादौ वः साध्यत्वम् । [ग] सिद्धिकर्मत्वम्

( त० प्र० ) ( दि० गु० ) । यथा पर्वतो वह्निमान् इति निश्चय-

विषयत्वं वः । सिद्धिकर्मत्वमित्यत्र कर्मत्वं च विषयत्वम् ( दि० गु० ) ।

[घ ] वेदान्तिनस्तु यत्प्रतीतिर्लिङ्गेन जनयितव्या स साध्यधर्म इत्याहुः

( प्र० च० पृ० २३) । २ इच्छाविषयताविशेषः । यथा घटो जायताम्

इत्यत्र घटीया साध्यताख्या विषयता । यथा वा पाकः साध्यताम्
 

यथा यागस्य कृतिसाध्यत्वम् । यथा वा घटादेर्दण्डचक्रादिघटितसामग्री-

इतीच्छाविषयत्वम् । ३ अनन्तरभविष्यत्वम् ( त० प्र० ४ पृ० १०२) ।

साध्यत्वम् । अत्रेदं बोध्यम् । साध्यत्वं चासिद्धधर्मः । भाविकालवृत्ति

इत्यर्थः । साधनत्वं तु सिद्धो धर्मः । पूर्वकालवृत्तिधर्मः इत्यर्थः (त०
 

प्र० ख० ४ पृ० १०२) ।
 

 
<
साध्यताघटकसंवन्धः - >
येन संबन्धेन साध्यता विवक्ष्यते स संबन्धः ।

यथा पर्वतादौ संयोगेन वयादिसाधने संयोगसंबन्धः साध्यताघटक

संबन्धः । यथा वा तमः समवायेन गगनवत् इत्यादौ समवायसंबन्धः

( दीधि ० ) ( ग० संश० पक्ष० पृ० ५) । एवम् प्रतियोगितावच्छेद-

कसंबन्धानुयोगितावच्छेदकसंबन्धादयः स्वयमूह्याः ।

साध्यतावच्छेद–धर्मेण संबन्धेन वा साध्यतावच्छतेस

यथा पर्वते संयोगसंबन्धेन वः साधने पर्वतः संयोगेन वह्निमान् इत्याद

साध्यतां वह्नित्वं संयोगश्चावच्छिनत्ति इति ज्ञेयम् । एवम् कारणताव-

वहित्वं संयोगश्च साध्यतावच्छेदकः । अत्र वह्निः साध्यः । तनिष्ठां

च्छेदककार्यतावच्छेदके लक्ष्यतावच्छेदकलक्षणतावच्छेदके उद्देश्यताव-

च्छेदक विधेयतावच्छेदके प्रतियोगितावच्छेदकानुयोगितावच्छेदके इत्या

"दयः शब्दा यथायोग्यं व्याख्येयाः इति । अत्र व्युत्पत्तिः साध्यताम

वच्छिनत्ति विशेषयति ( ण्वुलू ) इति । अत्र साध्यतावच्छेदकत्वं च
 

स्वरूपसंबन्धविशेषः विषयताविशेषो वा ।
 

 
<
साध्यतावच्छेदकसंबन्धः --- >
साध्यताघटकसंबन्धः ।
 
P
 
...