This page has not been fully proofread.

1
 
न्यायकोशः ।
 
९९९
 
मिता० पृ० १६७ ) इत्यादौ साधारणशब्दस्यार्थ इत्याहुः ( अमरः
३।१।८२ ) । अन्यदप्युदाहियते साधारणं समाश्रित्य यत्किंचिद्वाहनादि-
कम् ( स्मृतिः ) इति । ४ सदृशम् इति साहित्यशास्त्रज्ञा आहुः ( अमरः
२।१०।३७)। ५ वेश्यादिनायिका साधारणी इत्यालंकारिका आहुः ।
६ कुञ्चिका इति काव्यज्ञा आहुः ।
 
साधारणकारणत्वम् - ( कारणत्वम् ) [क] कार्यत्वावच्छिन्नकार्यता-
निरूपितकारणस्वम् । यथा ईश्वरतज्ज्ञानादेः कार्यमात्रे (कार्यत्वावच्छिन्नं
प्रत्येव ) कारणत्वात् साधारणकारणत्वम् (वाक्य ० १ पृ० १० )
( न्या० बो० १ पृ० ८) । अत्र ईश्वरज्ञानस्य च ज्ञानत्वेन कार्यत्वेन
कार्यकारणभावात् सामान्यधर्मावच्छिन्न कार्यतानिरूपितकारणताश्रयत्वेन
घढं प्रत्यपि साधारणकारणत्वम् ( म० प्र० १ पृ० ५ ) । [ख]
सामान्यधर्मावच्छिन्नकार्यतानिरूपितकारणत्वम् ( म०प्र० १५० ५ ) ।
अत्रायमाशयः । कार्यमात्रं प्रतीश्वरज्ञानादिकं कारणम् इति कार्यकारण-
भाषः । न तु घटं प्रति दण्डः पटं प्रति तन्तुः कारणम् इति विशिष्य
 
कार्यकारणभाववत् घटादिकं प्रतीश्वरादिकं कारणम् इति कार्यकारण-
भावः इति । अत्रेदं ज्ञेयम् । अष्टौ साधारणकारणानि ईश्वरः तज्ज्ञा-
• नेच्छाकृतयः प्रागभावः कालः दिक् अदृष्टम् (धर्माधर्मों ) च
( वाक्य० १पृ० १०) इति । केचित प्रतिबन्धकसामान्याभावोपि
नवमं साधारणकारणमङ्गीचक्रुः (मु० १/१) ।
साधारणत्वम् – ( हेत्वाभास : हेतुदोषः ) [ क ] पक्षादित्रयवृत्तित्वम् ।
अत्र पक्षादित्रयं च पक्षः सपक्षः विपक्षश्च । तेषु वर्तमानत्वम् इति
विशिष्टयार्थः । यथा पर्वतो वह्निमान् प्रमेयत्वात् इत्यादौ प्रमेयत्वस्
साधारणत्वम् । अत्र प्रमेयत्वात्मकहेतोः पक्षे पर्वते सपक्षे महानसे विपक्षे
महाहदादौ च वर्तमानत्वात्साधारणत्वम् इति बोध्यम् । [ख] विपक्ष-
वृत्तित्वम् ( चि० २ सव्य० पृ० ८७ ) । अत्र विपक्षः साध्याभाववान्
इति नव्यमतम् । विपक्षः निश्चितसाध्याभाववान् इति प्राचीनमतम् इति
विज्ञेयम् ( दीधि० २ सव्य० पृ० १९३) । ग साध्यात्यन्ताभाव-