2023-12-26 06:42:17 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
९९५
 
परिमाण्डल्यभिन्नानां पदार्थानां साधर्म्यं भवति । कार्यत्वानित्यत्वे

कारणवतामेव साधर्म्ये भवतः । आश्रितत्वं नित्यद्रव्यभिन्नानां पदार्थानां

साधर्म्यं भवति । अत्र आश्रितवं च सर्वाधारतानियामक संबन्धान्य-

संबन्धेन वृत्तिमत्त्वम् । तेन काले नातिव्याप्तिः (ल० व०) । निर्गुणवं

क्रियाशून्यत्वं च गुणादिषस्य । निर्गुणत्वमित्यस्य गुणवदवृत्तिधर्मवत्त्वम्

इत्यर्थः । अत्रेदमधिकं बोध्यम् । गुणादिषट्स्य संख्यां विनापि धीविशेष-

विषयत्वमादायैकत्वादि प्रतीतेस्तद्व्यवहारस्य चोपपत्तिः कर्तव्या इति

कर्मप्रभृतीनां
 
( त० व० ) । गुणाधिकरणावृत्तिगुणावृत्तिधर्मवस्वं

पञ्चानाम् । सामान्यशून्यत्वं सामान्यादीनां चतुर्णाम् । तदर्थश्च समवाय-

संबन्धावच्छिन्नप्रतियोगिताकजातिसामान्याभाववत्त्वम् । सत्त्वाश्रयावृत्ति-

जात्यवृत्तिधर्मवत्त्वं विशेषादित्रयाणाम् । प्रतियोगित्वानुयोगित्वान्यतर-

संबन्धावच्छिन्नसमवायनिष्ठावच्छेदकताकभेदवत्वं समवायाभावयोः ।

भावत्वं द्रव्यादिषट्स्य । अत्र भावस्वं च समवाय सामानाधिकरण्य एत

दन्यतरसंबन्धेन सत्तावत्त्वम् ( दि० १११ अभावनि० पृ० ४१ )

( ल० व० ) । अनेकत्वे सति भावत्वम् समवायित्वं च द्रव्यादिपञ्च-

कस्य । अनेकत्वे सतीत्यस्य अनेकभाववृत्तिपदार्थविभाजकोपाधिमत्त्वम्

इति फलितोर्थ: (मु० १ पृ० ४६ ) । समवायित्वमित्यस्यार्थश्च सम-

वायसंबन्धेन संबन्धित्वम् । तेन सामान्यादौ नाव्याप्तिः (मु० १

१० ४६ ) । अथ वा समवेतवृत्तिपदार्थविभाजकोपाधिमत्त्वम् ( ल०

व० पृ० ३ ) । समवेतसमवेतत्वं द्रव्यादिचतुष्टयस्य । तच्च समवेत-

समवेतवृत्तिपदार्थ विभाजकोपाधिमत्त्वम् ( ल० व० ) ( दि० गु० १

पृ० ४६ ) । समवायेन सत्तावत्वम् कारणत्वं च द्रव्यादित्रयस्य ।

अत्र भाष्यम् । द्रव्यादीनां त्रयाणामपि सत्तासंबन्धः सामान्य विशेष-

वत्त्वम् स्वसमवायः अर्थशब्दाभिषेयत्वम् धर्माधर्मकतृत्वं च ( प्रशस्त
 
to
 
-
 

(पृ० ३) इति । नित्यानित्योभयवृत्तिसत्ताभिन्नजातिमत्त्वम् कर्मावृत्तिजाति-
मत्त्वं वा
 

मत्त्वं
द्रव्यगुणयोः । असमवायिकारणस्वं गुणकर्मणोः । समवाय-

कारणत्वं द्रव्यस्य । तत्र द्रव्यत्वम् गुणवत्वं च पृथिव्यादीनां नवानां