This page has not been fully proofread.

न्यायकोशः ।
 
९९३
 
A
 
साधनम् - १ ( हेतुः ) सिद्धिजनकम् ( दि० गु० ) । अत्र जनकत्वं च
जनकज्ञान विषयत्वम् इति वक्तव्यम् । तेन घूमज्ञानस्यैव सिद्धिजनकत्वेन
घूमे सिद्धिजनकत्वाभावेपि न क्षतिः । यथा पर्वतो वह्निमान् धूमात्
इत्यादौ धूमः साधनम् । २ क कारणम् ( मथुरा० ) ।
घटस्य साधनं दण्ड: पटस्य साधनं तन्तुः इत्यादौ साधनशब्दार्थः ।
• साक्षात्साघनत्वं च अव्यवहितपूर्वत्वसंबन्धेन कार्याधिकरणीभूतक्षणनिष्ठा-
अत्र साधनत्वं द्विविधम् साक्षात्साघनत्वं परंपरासाधनत्वं चेति । तत्र
स्वर्गोत्पत्ति प्रत्यपूर्वस्य साधनत्वम् । परंपरासाधनत्वं च अव्यवहित-
त्यन्ताभावप्रतियोगितानवच्छेदकान्यथासिद्ध्यनिरूपकधर्मवत्त्वम् । यथा
पूर्व वसंबन्धेन कार्याधिकरणीभूतक्षणनिष्ठात्यन्ताभावप्रतियोगितानवच्छे-
• दकान्यथासिद्ध्यनिरूपकधर्मावच्छिन्नजनकत्वे सति कार्यनियतपूर्ववर्ति-
तावच्छेदकान्यथासिद्ध्यनिरूपक धर्मवत्वम् ( मथुरा० ) । यथा स्मृतिं
प्रत्यनुभवस्य साधनत्वम् । [ख] इतरकारणकलापे यदतिशयितं कारणम्
तत्साधनम् इति मध्वमतानुयायिन आहुः (प्र० च० पृ० १४ ) ।
अनुमितिः । यथा पर्वते धूमेन वहिसाधने इत्यादौ साधनपदार्थः ।
ग कारकत्वेनान्वयि साधनम् इति शाब्दिका वदन्ति । ३ सिद्धिः
• यथा वा द्रव्यत्वादेरपि धूमेन साधनात् (गौ० वृ० ५/१/२७) इत्यादौ
 
whats
 
to be
 
साधनशब्दस्यार्थः ।
 
P15
 
साधनवैकल्यम – दृष्टान्ते साधनस्यावर्तमानत्वम् । अत्रेदं बोध्यम् । दृष्टान्ते
• साधनवैकल्यादयो निग्रहस्थानेन्तर्भवन्ति ( दि० १) इति ।
साधनाप्रसिद्धिः - ( हेतुदोषः असिद्धिः ) हेतौ हेतुतावच्छेदकस्याभावः ।
यथा पर्वतो वह्निमान् काञ्चनमधूमात् इत्यादौ धूमनिष्ठः काञ्चनमयत्वा-
• भाषः साधनाप्रसिद्धि: ( म० प्र० २ पृ० २७) । इयं च साधना-
• प्रसिद्धिः व्याप्यत्वासिद्धिप्रभेद इति विज्ञेयम् ( नील० २१० २६)
(मु० २ पृ० १६१) । तलक्षणं च साधने साधनतावच्छेदक-
• वैशिष्ट्यावाहिग्रहविरोधिग्रहविषयत्वम् ( ल० व० ) । अत्र काञ्चनमय-
घूमादिहेतुकस्थले हेतुतावच्छे द कवि शिष्टहे तोर्ज्ञानाभावात् तद्धेतुकव्याप्ति-
१२५ न्या. को०