This page has not been fully proofread.

न्यायकोशः ।
 
यथा साक्षात्कारे सुखादीनां करणं मन उच्यते (भा०प० श्लो० ८६)
• इत्यादौ साक्षात्कारशब्दस्यार्थः । अत्र साक्षात्कारत्वं च साक्षात्क
• इत्यनुगत प्रतीतिसाक्षिको जातिविशेषः ( न्या० म० १ ) । [ख ]
• लौकिक संनिकर्षजन्यं प्रत्यक्षं साक्षात्कार इति केचिदाहुः ।
साक्षात्कारि – प्रत्यक्षात्मकं ज्ञानम् । यथा साक्षात्कारिप्रमाकरणं प्रत्यक्षम् ।
साक्षात्कारिणी प्रमा सैवोच्यते येन्द्रियजा ( त० भा० पृ० ५ ) इत्यादौ
 
साक्षात्कारिशब्दस्यार्थः ।
 
साक्षात्संबन्धः-पारम्पर्यरहितः संबन्धः । यथा भट्टमते शब्दो द्रव्यम्
• साक्षात्संबन्धेनेन्द्रियग्राह्यत्वात् घटवत् ( न्या० म० ४ पृ० ३१ )
इत्यत्र साक्षात्संबन्धशब्दस्यार्थः । अत्र साक्षात्वं च इतरपदार्थाप्रति
सत्युद्दिष्टपदार्थ प्रतियोगिकत्वम् इति । साक्षात्संबन्धश्च संयोग
'समवाय एतदन्यतरः ( त० प्र० ख० ४ पृ० १२६) । एव-
योगिकत्वे
 
मन्योपि चिन्त्यः ।
 
साक्षी - १ बोद्धवे सति अकर्ता । यथा कलहे प्रवृत्ते कश्चनान्यः पुरुषः
साक्षी । मायावादिवेदान्तिमते उपाध्युपहितं केवलं चैतन्यं साक्षि ।
• यथा साक्षी चेताः केवलो निर्गुणश्च (श्रुतिः ) इत्यादौ जीवेश्वरौ साक्षिण
इति । तन्मते जीवसाक्षीश्वरसाक्षिद्वैविध्येन प्रत्यक्षज्ञान द्वैविध्यम् । तत्र
जीवसाक्षि चान्तःकरणोपहितं चैतन्यम् । तच जीवभेदेन नाना ।
ईश्वरसाक्षि तु मायोपहितं चैतन्यम् । तच्चैकम् । तदुपाधिभूत-
मायाया एकत्वात् इति । जीवेश्वरयोरन्तःकरणमायारूपतदुपाध्यो-
तत्तदुपाधिवृत्तिचैतन्यस्यैव अवभासकत्वात्साक्षित्वमुपपद्यते
(वेदा० परि० १ पृ० १८) । माध्वमते तु स्वरूपेन्द्रियं साक्षि
न तु मनः । अत्र साक्षिलक्षणं तु आत्मस्वरूपज्ञानादिव्यञ्जकत्व-
इति स्पष्टम् । अत्रोक्तम् प्रत्यक्षं सप्तविधम् साक्षिषडिन्द्रियभेदात् ।
तत्र स्वरूपेन्द्रियं साक्षीत्युच्यते । तस्य विषया आत्मस्वरूपतद्धर्मज्ञान-
सुखादयः भावरूपाविद्या मनस्तमश्च ज्ञानसुखाद्याः कालो व्याकृताकाश-
याद्याः । स च स्वरूपज्ञानादिकं व्यनक्ति ( प्र० च० पृ० १५ )
 
-
 
जडत्वेपि
 
-