2023-12-26 06:37:12 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
साकाङ्कोदाहरणं तु चैत्रस्य गुरुकुलम् मैत्रस्य दासभार्या ( महाभाष्ये

२।१।१ ) इत्यादि । इदं च शाब्दप्रमितौ प्रयोजकम् । अत एव गौरश्वः

पुरुषो हस्ती इति घटो घटः इति च निराकाङ्क्षवाक्यान शाब्दप्रमितिः

इति विज्ञेयम् । अत्र पदानि साकाङ्काणि अर्थाः साकाङ्क्षा वा इति प्रश्ने

उत्तरमाह । अर्थास्तावत् स्वपदश्रोतरि अन्योन्यविषयाकाङ्क्षा जनकत्वेन

साकाङ्क्षाः इत्युच्यन्ते । तद्वारेण तत्प्रतिपादकानि पदान्यपि साकाङ्क्षाणि

इत्युच्यन्ते । यद्वा पदान्येव स्वार्थ प्रतिपाद्यार्थान्तर विषयाकाङ्कनका

इत्युपचारात् साकाङ्क्षाणि (त० मा० पृ० १८) इति । २ सामिलापत्वं
 

साकाङ्क्षत्वम् इति काव्यज्ञा आहुः ।
 
९८८
 
साकारत्वम् –

 
<साकारत्वम्>
१ धर्माश्रयत्वम् ( मू० म० १ ) । यथा अयं घटः इति
 

ज्ञानस्य घटत्वाश्रयत्वम् ।
 
स्वनिष्ठ प्रकारता निरूपित प्रकारिता
 

यत्किंचिद्धर्म विशिष्टत्वम् इत्यर्थः । २ माध्वाः पौराणिकाश्च मूर्तिविशिष्टत्वम्।

यथा परमात्मनः साकारत्वम् इत्याहुः । अयं भावः । मध्यमते परमा

त्मनोप्राकृतज्ञानानन्दादिगुणरूपशरीरस्वीकारेण साकारत्वं संगच्छते।

पौराणिकमते तु अपाञ्चभौतिकेच्छा स्वीकृतलीला विग्रहवत्त्वेन तस्य साका-

रत्वमुपपद्यते इति ।
 
अव्यव
 
साक्षात् -

 
<साक्षात्>
१ प्रत्यक्षम् । यथा साक्षादृष्टो मया हरिः इत्यादौ । केचितु

लौकिक प्रत्यक्षम् इत्याहुः । २ [ क ] मायावादिवेदान्तिनस्तु

हितम् (बृह० उप० शांकरभा० ३।४।१ ) । तच्च सद्रूपं चैतन्यं इत्याहुः ।

यथा यत्साक्षादपरोक्षाद्रह्म ( बृह० उप० ३/४/१ ) इति श्रुतौ साक्षात्

इत्यस्यार्थः ।ख ] परंपरासंबन्धराहित्यम् । यथा द्रव्यत्वसाक्षाया

जातिः पृथिवीत्वम् इत्यादौ साक्षात्शब्दार्थः । अत्र साक्षाद्व्याप्यत्वं च

तड्याप्याव्याप्यत्वे सति तद्व्याप्यत्वं बोध्यम् । यथा च साक्षान्माता

साक्षाद्भगिनी इत्यादौ साक्षात्शब्दार्थः । ३ तुल्यम् । यथा साक्षा-

लक्ष्मीरियं वधूः इत्यादौ साक्षात्शब्दार्थः इति काव्यज्ञा भाईः
 
20
 

५ (अमरः ३।३।२४२ ) ।
 
Preprat
 
-
 

 
<
साक्षात्कारः - >
[क प्रत्यक्षात्मकं ज्ञानम् ( न्या० म० १ १० ३) ।