This page has not been fully proofread.

९७८
 
न्यायकोशः ।
 
व्यु० पृ० ९६) । [ ख ] प्राञ्चस्तु व्यापकत्वावच्छिन्नमित्याहुः
(दि० १ पृ० १७९ ) । अत्रेदमवधेयम् । योगसिद्ध्यधिकरणे हि यः
पुत्रकामो यः पशुकाम: (श्रुतिः ) इत्यादिना यज्ञऋतूनुपक्रम्य एकस्मै
वा कामायान्ये यज्ञऋतव आहियन्ते सर्वेभ्यो दर्शपूर्णमासौ इत्याम्ना
तम् । तत्र सर्वेभ्यो दर्शपूर्णमासौ ( कर्तव्यौ) इत्यादौ सर्वान्तर्गत
घटोशेन दर्शपूर्णमासाद्यसंभवेन सर्वशब्दस्य संकोच: प्रकृतनिरपे-
क्षपुत्रादितत्तत्फलपरत्वरूपः कार्यः इति । [ग] बुद्धिविषयो यावत्वा-
वच्छिन्नः समूहः सर्वपदार्थ : इति शाब्दिका वदन्ति । [घ ] संपूर्णम्
सकलं च इति काव्यज्ञा आहुः । २ वेदान्तिनस्तु विष्णुः इत्याहुः ।
• तत्रोक्तम् असतश्च सतश्चैव सर्वस्य प्रभवाप्ययौ । सर्वस्य सर्वदा ज्ञाना-
त्सर्वमेतं प्रचक्षते ॥ ( विष्णुपु० ) इति ।
 
सविकल्पकम् – ( प्रत्यक्षम् ) [ क ] विशिष्टग्रहणम् । [ ख ] वैशिष्ट्या
वगाहि सप्रकारकं वा ज्ञानम् ( न्या० म० पृ० ४ ) ( त० सं० ) /
( त० सं० ) । अत्र वैशिष्ट्यावगाहि इत्यस्य नामजात्यादिविशेषण विशेष्य
यथा डित्थोयम् ब्राह्मणोयम् श्यामोयम् पाचकोयम् इति प्रत्यक्षज्ञानम्
संबन्धावगांहि ज्ञानमित्यर्थः ( त० दी० १ पृ० १८) ( त० कौ० )/
सप्रकारकमित्यस्य किंचिन्निष्ठप्रकारताशालि ज्ञानम् इत्यर्थः (त०
 
प्र० १ ) । सविकल्पकमित्यत्र विकल्पः प्रकारता । तथ
 
तथा च
 
तल्लक्षणं प्रकारतानिरूपकज्ञानत्वम् इति । अयं भावः / विषयताया
ज्ञाननिरूपितत्वाज्ज्ञानस्य च विषयतानिरूपकत्वेन प्रकारता निरूपक
ज्ञानत्वं तल्लक्षणम् । एवम् विशेष्यतानिरूपकज्ञानत्वम् संसर्गता निरूपक
 
ज्ञानत्वम् इत्यपि लक्षणानि संभवन्ति
 

 
• निर्विकल्प के त अतिरिक्ता
 
तुरीया विषयता स्वीक्रियते । त्रिविधविषयतामध्य एकापि तत्र न
( न्या० बो० १ पृ० ११ ) ( वाक्य० १ पृ० १२ ) ( नील०
पृ० १८ ) । [ग माध्ववेदान्तिनस्तु विशिष्टाकारगोचरं प्रत्यक्षम् /
विकल्पको यथा शुक्ल: इति । (३) क्रियाविकल्पको यथा गच्छति
तदष्टविधम् तत्र ( १ ) द्रव्यविकल्पको यथा दण्डी इति । (२) गुण
 
2