2023-12-26 06:28:24 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
९७७
 
बोधविषयकः संकेतः (ग० शक्ति० पृ० ७३ ) । यद् तद् यद् एतद्

इदम् अदस् इत्यादयः त्यदादयः । अत्र च सर्वनामपदेन सर्वनाम -

संज्ञायुताः त्यत्तदादयः शब्दा गृह्यन्ते । अतो न काप्यनुपपत्तिः । सर्वनाम-

संज्ञा विधायकसूत्रं च सर्वादीनि सर्वनामानि (पाणि० १११।२७) इति ।

[ख] वक्तृबुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नम् (ग० शक्ति०

पृ० ६५ ) । यथा सोयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः

( हनु० नाट० श्लो० १) इत्यादौ तच्छन्दार्थः ।

 
<
सर्वपापहरा>
एकादशी द्वादशी च रात्रिशेषे त्रयोदशी । त्रिभिर्मि

तिथिः प्रोक्ता सर्वपापहरा स्मृता ॥ (पु० चि० पृ० १८२ ) ।

 
<
सर्वपृष्ठः>
षट्सु अहःसु क्रमेण रथंतरम् बृहद्वैरूपम् इत्यादिभिः षद्भिः

सामभिः पृष्ठस्तोत्रं निष्पादितम् । तानि सर्वाणि पृष्ठसामानि यस्मिन्विश्व-

जिति सोयं सर्वपृष्ठ: ( जै० न्या० अ० १० पा० ६ अधि० ५ ) ।

 
<
सर्वभावाधिष्ठातृत्वम् - >
सर्वेषां व्यवसायाव्यवसायात्मकानां गुणपरिणाम-

रूपाणां भावानां स्वामिवदाक्रमणम् ( सर्व० सं० पृ० ३४५ पात० ) ।
 
-
 

 
<
सर्वम् - >
१ [क] स्वार्थान्वयितावच्छेदकधर्मव्यापकता दृशधर्मावच्छिन्नान्व-

यितावच्छेदकावच्छिन्नव्याप्यपर्याप्तिकधर्मावच्छिन्नम् । यथा सर्वे घट

रूपवन्तः इत्यादौ सर्वपदार्थ : ( ग० शक्ति० पृ० ९६ ) । सर्वपद-

प्रवृत्तिनिमित्तं च उद्देश्यतावच्छेदक व्यापक विधेयव्याप्यपर्याप्तिको धर्मः ।

तथाविधश्च धर्मः सर्वे घटा रूपवन्तः इत्यादौ घटनिष्ठयावत्वमेव । तस्य

व्यासज्यवृत्तितया तत्पर्याप्तेर्घटत्वव्यापकत्वात् रूपादिव्याप्यत्वात् । शब्दा-

द्धटत्वादिव्यापके रूपादिव्याप्यत्वलाभे तयोरपि व्याप्यव्यापकभावो-

लभ्यत इति । कचित् अशेषत्वादि कचित् यावत्त्ववदनेकत्वं च प्रवृत्ति-

निमित्तम् ( ग० शक्ति० पृ० ९३ ) । अत्र च सर्वशब्दः स्वसमभि-

व्याहृतपदार्थतावच्छेदकव्यापकत्वं तादृशपदार्थान्तरे बोधयति इति

नियमः । एवं च सर्वे घटा रूपवन्तः इति वाक्यात् घटत्वव्यापकं

रूपवत्वम् इति शाब्दबोधो जन्यत इति बोध्यम् (दि० ४ पृ० १७९) ।
 

अत्र अन्वयित्वं चोद्देश्यविधेयभाव विशेष्यविशेषणभावसाधारणम् ( ग०
 

१२३ न्या० को०