न्यायकोशः /1031
This page has not been fully proofread.
न्यायकोशः ।
९७७
बोधविषयकः संकेतः (ग० शक्ति० पृ० ७३ ) । यद् तद् यद् एतद्
इदम् अदस् इत्यादयः त्यदादयः । अत्र च सर्वनामपदेन सर्वनाम -
संज्ञायुताः त्यत्तदादयः शब्दा गृह्यन्ते । अतो न काप्यनुपपत्तिः । सर्वनाम-
संज्ञा विधायकसूत्रं च सर्वादीनि सर्वनामानि (पाणि० १११।२७) इति ।
[ख] वक्तृबुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नम् (ग० शक्ति०
पृ० ६५ ) । यथा सोयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः
( हनु० नाट० श्लो० १) इत्यादौ तच्छन्दार्थः ।
सर्वपापहरा – एकादशी द्वादशी च रात्रिशेषे त्रयोदशी । त्रिभिर्मि
तिथिः प्रोक्ता सर्वपापहरा स्मृता ॥ (पु० चि० पृ० १८२ ) ।
सर्वपृष्ठः – षट्सु अहःसु क्रमेण रथंतरम् बृहद्वैरूपम् इत्यादिभिः षद्भिः
सामभिः पृष्ठस्तोत्रं निष्पादितम् । तानि सर्वाणि पृष्ठसामानि यस्मिन्विश्व-
• जिति सोयं सर्वपृष्ठ: ( जै० न्या० अ० १० पा० ६ अधि० ५ ) ।
सर्वभावाधिष्ठातृत्वम् - सर्वेषां व्यवसायाव्यवसायात्मकानां गुणपरिणाम-
रूपाणां भावानां स्वामिवदाक्रमणम् ( सर्व० सं० पृ० ३४५ पात० ) ।
-
सर्वम् - १ [क] स्वार्थान्वयितावच्छेदकधर्मव्यापकता दृशधर्मावच्छिन्नान्व-
•यितावच्छेदकावच्छिन्नव्याप्यपर्याप्तिकधर्मावच्छिन्नम् । यथा सर्वे घट
• रूपवन्तः इत्यादौ सर्वपदार्थ : ( ग० शक्ति० पृ० ९६ ) । सर्वपद-
• प्रवृत्तिनिमित्तं च उद्देश्यतावच्छेदक व्यापक विधेयव्याप्यपर्याप्तिको धर्मः ।
तथाविधश्च धर्मः सर्वे घटा रूपवन्तः इत्यादौ घटनिष्ठयावत्वमेव । तस्य
• व्यासज्यवृत्तितया तत्पर्याप्तेर्घटत्वव्यापकत्वात् रूपादिव्याप्यत्वात् । शब्दा-
●द्धटत्वादिव्यापके रूपादिव्याप्यत्वलाभे तयोरपि व्याप्यव्यापकभावो-
लभ्यत इति । कचित् अशेषत्वादि कचित् यावत्त्ववदनेकत्वं च प्रवृत्ति-
निमित्तम् ( ग० शक्ति० पृ० ९३ ) । अत्र च सर्वशब्दः स्वसमभि-
●व्याहृतपदार्थतावच्छेदकव्यापकत्वं तादृशपदार्थान्तरे बोधयति इति
नियमः । एवं च सर्वे घटा रूपवन्तः इति वाक्यात् घटत्वव्यापकं
रूपवत्वम् इति शाब्दबोधो जन्यत इति बोध्यम् (दि० ४ पृ० १७९) ।
● अत्र अन्वयित्वं चोद्देश्यविधेयभाव विशेष्यविशेषणभावसाधारणम् ( ग०
१२३ न्या० को०